कौषीतकिब्राह्मण · अध्याय 16.9
किम्.देवत्यः.सोम.इति.मधुको.गौश्रवम्.पप्रच्छ ।
स.ह.सोमः.पवत.इत्य्.अनुद्रुत्य । (सोम: तृतीय.सवन)
एतस्य.वा.अन्ये.स्युर्.इति.प्र्त्युवाच ।
बह्वृचवद्.एव ।
ऐन्द्र.इति.त्व्.एव.पैङ्ग्यस्य.स्थितिर्.आस । (सोम: तृतीय.सवन)
ऐन्द्राग्न.इति.कौषीतकेः ।
अग्निना.वै.प्रतिपद्यते.यद्.आज्येन । (सोम: तृतीय.सवन)
इन्द्रम्.अनु.संतिष्ठत.एताम्.परिधानीयाम् ।
तस्माद्.ऐन्द्राग्न.इति । (सोम: तृतीय.सवन)
एष.वा.अग्निष्टोमः ।
एष.वा.उ.कामाय.कामाय.आह्रियते ।
यो.ह.वा.एतेन.अनिष्ट्वा.अथ.अन्येन.यजते । (सोम: तृतीय.सवन)
कर्तपत्यम्.एव.तज्.जीयते.प्र.वा.मीयत.इति.ह.स्म.आह ।
स.वा.एषो.अग्निष्टोम.आज्य.प्रभृत्या.अग्नि.मारुत.अन्तः ।
यत्.शस्यंस्.त्रीणि.षष्टि.शतान्य्.ऋचाम्.सम्पद्यन्ते । (सोम: तृतीय.सवन)
त्रीणि.वै.षष्टि.शतानि.संवत्सरस्य.अह्नाम् ।
तत्.संवत्सरस्य.अहान्य्.आप्नोति ।
अग्ने.मरुद्भिः.शुभयद्भिर्.ऋक्वभिर्.इत्य्.उक्थम्.शस्त्वा.यजत्य्.आग्निमारुत्या । (सोम: तृतीय.सवन)
आग्मिमारुतम्.ह्य्.एतद्.उक्थम् ।
जगत्या.जागतम्.हि.तृतीय.सवनम् । (सोम: तृतीय.सवन)
मद्वत्या.मद्वद्द्.हि.तृतीय.सवनम् ।
अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै ।
आहुतीनाम्.प्रतिष्ठित्यै । (सोम: तृतीय.सवन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0