भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 16.8

16.8.1

आपो.देवत्याः.शंसति ।

16.8.2

शान्तिर्.वै.भेषजम्.आपः ।

16.8.3

शान्तिर्.एव.एषा.भेषजम्.अन्ततो.यज्ञे.क्रियते । (सोम: तृतीय.सवन)

16.8.4

तस्माद्.एना.आरतम्.शंसेत् ।

16.8.5

यथा.अप्सु.न्युन्दान्.एवम् । (सोम: तृतीय.सवन)

16.8.6

अहिम्.बुध्न्यम्.शंसति ।

16.8.7

अग्निर्.वा.अहिर्.बुध्न्यः ।

16.8.8

तम्.एतया.उज्ज्वलयति ।

16.8.9

अथो.धिष्ण्यान्.एव.एतया.अनुशंसति ।

16.8.10

देवानाम्.च.पत्नी.राकाम्.च.शंसति । (सोम: तृतीय.सवन)

16.8.11

पत्नीवत.ग्रहम्.एव.एताभिर्.अनुशंसति ।

16.8.12

अथो.अन्त.भाजो.वै.पत्न्यः ।

16.8.13

तस्माद्.एना.अन्त्ये.शस्त्रे.शंसति । (सोम: तृतीय.सवन)

16.8.14

अक्षर.पङ्क्तयः.शंसति ।

16.8.15

पशवो.वा.अक्षर.पङ्क्तयः ।

16.8.16

पशूनाम्.एव.आप्त्यै । (सोम: तृतीय.सवन)

16.8.17

अथो.प्राण.अपानौ.वा.अक्षर.पङ्क्तयः ।

16.8.18

प्राण.अपानाव्.एव.तद्.आत्मन्.धत्ते । (सोम: तृतीय.सवन)

16.8.19

अथो.शस्त्रस्य.एव.स.इन्द्रतायै ।

16.8.20

पैत्रीश्.च.यामीश्.च.शंसति ।

16.8.21

नाराशंसान्.एव.एताभिर्.अनुशंसति । (सोम: तृतीय.सवन)

16.8.22

अथो.अन्त.भाजो.वै.पितरः ।

16.8.23

तस्माद्.एनान्.अन्त्ये.शस्त्रे.शंसति । (सोम: तृतीय.सवन)

16.8.24

स्वादुष्किलीयाः.शंसति ।

16.8.25

सोमम्.एव.एताभिर्.इन्द्राय.स्वदयति ।

16.8.26

अथो.देव.लोको.वा.इन्द्रः । (सोम: तृतीय.सवन)

16.8.27

पितृ.लोको.यमः ।

16.8.28

देव.लोकम्.एव.तत्.पितृ.लोकाद्.अभ्युत्क्रामन्ति ।

16.8.29

तास्व्.अध्वर्युर्.मद्वत्.प्रत्यागृणाति । (सोम: तृतीय.सवन)

16.8.30

मद्वद्द्.हि.तृतीय.सवनम् ।

16.8.31

वैष्णुवारुणीम्.शंसति ।

16.8.32

यज्ञो.वै.वैष्णुवारुणः ।

16.8.33

यद्.वै.यज्ञस्य.स्खलितम्.वा.उल्बणम्.वा.भवति । (सोम: तृतीय.सवन)

16.8.34

तद्.एतया.भिषज्यति ।

16.8.35

भैषज्यम्.एव.एषा ।

16.8.36

वैष्णवीम्.च.आग्नेयीम्.च.शंसति । (सोम: तृतीय.सवन)

16.8.37

अग्नाविष्णू.वै.देवानाम्.अन्त.भाजौ ।

16.8.38

तस्माद्.एनाव्.अन्त्ये.शस्त्रे.शंसति ।

16.8.39

ऐन्द्र्या.परिदधाति ।

16.8.40

इन्द्रस्य.ह्य्.एषः । (सोम: तृतीय.सवन)

16.8.41

तम्.इन्द्र.एव.अन्ततः.प्रतिष्ठापयति । (सोम: तृतीय.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc