कौषीतकिब्राह्मण · अध्याय 16.7
एकविंशत्य्.आहावम्.आग्मिमारुतम्.शंसति ।
एकविंशो.वै.स्तोमः.स्तोमानाम्.परमः.प्रतिष्ठानीयः । (सोम: तृतीय.सवन)
प्रतिष्ठित्या.एव ।
तच्.चतुर्विंशतिविधम्.भवति ।
विंशतिः.पर्वाणि । (सोम: तृतीय.सवन)
तानि.चतुश्.चत्वारिंशति ।
चतुश्.चत्वारिंशद्.अक्षरा.त्रिष्टुप् ।
बलम्.वै.वीर्यम्.त्रिष्टुप् ।
बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम: तृतीय.सवन)
वैश्वानरीयम्.शंसति ।
वैश्वानरीयो.हि.ग्रहो.गृहीतो.भवति ।
तम्.एव.एतेन.अनुशंसति ।
रौद्रीम्.शंसति ।
घोरो.वै.रुद्रः । (सोम: तृतीय.सवन)
भैषज्यम्.एव.तत्.कुरुते ।
अथो.अन्त.भाग्.वा.वा.एषः ।
तस्माद्.एनाम्.अन्त्ये.शस्त्रे.शंसति । (सोम: तृतीय.सवन)
मारुतम्.शंसति ।
एतत्.पूरो.वै.रुद्रः ।
तद्.एनम्.स्वेन.पूगेन.समर्धयति । (सोम: तृतीय.सवन)
अथ.यज्ञायज्ञियस्य.स्तोत्रिया.अनुरूपौ ।
जातवेदसीयम्.शंसति ।
तेन.अग्निमारुतम्.इत्य्.आख्यायते । (सोम: तृतीय.सवन)
तस्माद्.एनद्.अभ्यग्रम्.शंसेत् ।
यथा.अग्निम्.प्रदाव्यम्.अतिमोक्ष्यमाण.एवम् । (सोम: तृतीय.सवन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0