भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 16.6

16.6.1

अथ.पत्नीवत.ग्रहेन.चरन्ति ।

16.6.2

पत्नीर्.एव.तद्.आहवनीय.भाजः.कुर्वन्ति । (सोम: तृतीय.सवन)

16.6.3

तस्य.न.अनुवषट्.करोति ।

16.6.4

आज्य.संसृष्टो.हि.भवति ।

16.6.5

अननुवषट्.कार.भाग्.आज्यम् । (सोम: तृतीय.सवन)

16.6.6

उपांशु.यजति ।

16.6.7

रेतः.सिक्तिर्.वै.पत्नीवत.ग्रह.उपांशु.वै.रेतः.सिच्यते । (सोम: तृतीय.सवन)

16.6.8

न.अनुवषट्.करोति ।

16.6.9

रेतः.सिक्तिर्.वै.पत्नीवत.ग्रहः.संस्था.अन्वषट्.कारः । (सोम: तृतीय.सवन)

16.6.10

न.इद्.रेतः.सिक्तम्.पुरा.कालात्.संस्था.अपयानि.इति ।

16.6.11

तद्.आहुर्.यद्.एषा.नेष्टुर्.याज्या.अथ.कस्माद्.एनया.अग्नीध्रो.यजति.इति । (सोम: तृतीय.सवन)

16.6.12

आग्नेयी.वा.एषा.याज्या ।

16.6.13

आग्नेय.आग्नीध्रः ।

16.6.14

तस्माद्.एनया.अग्नीध्रो.यजति ।

16.6.15

अथो.एवम्.समा.अनुक्थानाम्.वषट्.कारा.भवन्ति.इति । (सोम: तृतीय.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc