कौषीतकिब्राह्मण · अध्याय 16.5
तद्.आहुः.कस्माद्.ब्रह्म.क्षत्रे.एव.प्रच्यावुके.विड्.अच्युत.इति ।
ब्रह्म.वै.प्रातः.सवनम् ।
क्षत्रम्.माध्यंदिनम्.सवनम् ।
विट्.तृतीय.सवनम् । (सोम: तृतीय.सवन)
तद्.यद्.यथा.उपपादम्.एव.प्रातः.सवन.मध्यंदिनयोः.परिदधति ।
तस्माद्.ब्राह्मण्यः.प्रजा.अनवधृतम्.क्षियन्ति । (सोम: तृतीय.सवन)
अनवधृतम्.क्षत्रियाः ।
अथ.यत्.तृतीयस्य.सवनस्य.परिधानीया.अच्युता । (सोम: तृतीय.सवन)
तस्माद्.विड्.अच्युता.इति ।
घृतस्य.यज.सौम्यस्य.यज.इत्य्.आह ।
एताभ्याम्.वै.यज्ञस्.तायते.यद्.घृतेन.च.सोमेन.च । (सोम: तृतीय.सवन)
ते.अत्र.प्रीणाति ।
प्रीते.यज्ञम्.वहात.इति ।
उपांशु.घृतस्य.यजति ।
रेतः.सिक्तिर्.वै.घृतम् । (सोम: तृतीय.सवन)
उपांशु.वै.रेतः.सिच्यते ।
अथ.यद्.उच्चैः.सौम्यस्य.यजति ।
चन्द्रमा.वै.सोमः ।
निरुक्त.उ.वै.चन्द्रमाः । (सोम: तृतीय.सवन)
तस्य.न.परस्तात्.परियजेद्.इत्य्.आहुः ।
तथा.अमी.अमुत.इदम्.अर्वाञ्चः.पश्यन्ति.इति । (सोम: तृतीय.सवन)
परियजेद्.इति.त्व्.एव.स्थितम् ।
देव.लोको.वा.आज्यम् ।
पितृ.लोकः.सोमः ।
देव.लोकम्.एव.तत्.पितृ.लोकाद्.अभ्युत्क्रामन्ति । (सोम: तृतीय.सवन)
अथो.पितॄन्.एव.तत्.प्रीणन्ति.यत्.सौम्येन.चरन्ति ।
अथो.एतद्.उपसद.उत्सृज्यन्त.इत्य्.आहुः ।
अग्निम्.सोमम्.विष्णुम्.इति.वा.उपसत्सु.प्रतियजति । (सोम: तृतीय.सवन)
अग्निम्.सोमम्.विष्णुम्.इति.इदम् ।
हरन्त्य्.एतम्.सौम्यम्.सदः ।
तम्.होता.प्रतिगृह्य.उपनिधत्ते ।
अथ.अस्य.सर्पिष्य्.आत्मानम्.पर्यवेक्ष्य.अङ्गुलिभ्याम्.सर्पिर्.उपस्पृशति । (सोम: तृतीय.सवन)
चक्षुष्पा.असि.चक्षुर्.मे.पाहि.इति.चक्षुषी.विमृजीत ।
चक्षुर्.एव.अस्य.तद्.गोपायति ।
तद्.उद्गातृभ्यः.प्रयच्छति । (सोम: तृतीय.सवन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0