कौषीतकिब्राह्मण · अध्याय 16.4
चत्वारि.सूक्तानि.वैश्वदेवे.शंसति ।
पशवो.वै.वैश्वदेवम् ।
चतुष्टया.वै.पशवः ।
अथो.चतुष्पादाः.पशूनाम्.एव.आप्त्यै । (सोम: तृतीय.सवन)
तस्माद्.एनद्.आरतम्.शंसेत् ।
रमन्ते.ह.अस्मिन्.पशवः ।
षोडश.आहावम्.वैश्वदेवम्.शंसति । (सोम: तृतीय.सवन)
षोडश.कलम्.वा.इदम्.सर्वम् ।
अस्य.एव.सर्वस्य.आप्त्यै ।
तत्.सप्तदशविधम्.भवति । (सोम: तृतीय.सवन)
एकादश.देवताश्.चतस्रो.निविद.उक्थ.वीर्यम्.याज्या.इति । (सोम: तृतीय.सवन)
सप्तदशो.वै.प्रजापतिः ।
एतद्.वा.आर्ध्नुकम्.कर्म.यत्.प्रजापति.सम्मितम् ।
विश्वे.देवाः.शृणुत.इमम्.हवम्.म.इत्य्.उक्थम्.शस्त्वा.यजति.वैश्वदेव्या । (सोम: तृतीय.सवन)
वैश्वदेवम्.ह्य्.एतद्.उक्थम् ।
त्रिष्टुभा.बलम्.वै.वीर्यम्.त्रिष्टुप् ।
बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम: तृतीय.सवन)
मद्वत्या.मद्वद्द्.हि.तृतीय.सवनम् ।
अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै ।
आहुतीनाम्.प्रतिष्ठित्यै । (सोम: तृतीय.सवन)
वाग्.एव.असौ.प्रथमा.अनुष्टुप् ।
ताम्.पञ्च.गायत्र्यो.अनुवर्तन्ते । (सोम: तृतीय.सवन)
मनः.सावित्रम् ।
प्राणो.वायव्या ।
चक्षुषी.द्यावा.पृथिवीयम् ।
यो.अयम्.अनिरुक्तः.प्राणः.स.सुरूप.कृत्नुः । (सोम: तृतीय.सवन)
श्रोत्रम्.आर्भवम् ।
प्राणो.अपानो.व्यान.इति.तिस्र.एक.पातिन्यः । (सोम: तृतीय.सवन)
आत्मा.सूक्तम्.यद्.अन्तर्.आत्मंस्.तन्.निवित् ।
प्रतिष्ठा.परिधानीय.अन्नम्.याज्या । (सोम: तृतीय.सवन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0