भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 16.3

16.3.1

सविता.वैश्वदेवम्.प्रतिपद्यते ।

16.3.2

सवितृ.प्रसूता.वै.देवास्.तृतीय.सवनम्.समभरन् । (सोम: तृतीय.सवन)

16.3.3

तस्मात्.प्रतिपद्.अनुचरौ.सूक्तम्.इति.सावित्राणि.भवन्ति ।

16.3.4

तत्.सवितुर्.वृणीमह.इत्य्.अनुष्टुभा.वैश्वदेवम्.प्रतिपद्यते । (सोम: तृतीय.सवन)

16.3.5

पवमान.उक्थम्.वा.एतद्.यद्.वैश्वदेवम् ।

16.3.6

अनुष्टुप्.सोमस्य.छन्दः । (सोम: तृतीय.सवन)

16.3.7

उक्तम्.पद.विग्रहणस्य.ब्राह्मणम् ।

16.3.8

गायत्रीः.शंसति ।

16.3.9

प्राणो.वै.गायत्र्यः । (सोम: तृतीय.सवन)

16.3.10

प्राणम्.एव.तद्.आत्मन्.धत्ते ।

16.3.11

सावित्रम्.शंसति ।

16.3.12

सावित्रो.हि.ग्रहो.गृहीतो.भवति ।

16.3.13

तम्.एव.एतेन.अनुशंसति । (सोम: तृतीय.सवन)

16.3.14

वायव्याम्.शंसति ।

16.3.15

प्राणो.वै.वायव्या ।

16.3.16

प्राणम्.एव.तद्.आत्मन्.धत्ते ।

16.3.17

तस्यै.शस्त्रे.द्विदेवत्यान्.विमुञ्चन्ति ।

16.3.18

वायौ.प्राणे.प्राणान् । (सोम: तृतीय.सवन)

16.3.19

द्यावा.पृथिवीयम्.शंसति ।

16.3.20

प्रतिष्ठे.वै.द्यावा.पृथिवी.प्रतिष्ठित्या.एव ।

16.3.21

तस्मिन्न्.अध्वर्युर्.मद्वत्.प्रत्यागृणाति । (सोम: तृतीय.सवन)

16.3.22

मद्वद्द्.हि.तृतीय.सवनम् ।

16.3.23

सुरूप.कृत्नुम्.शंसति । (सोम: तृतीय.सवन)

16.3.24

अन्नम्.वै.सुरूपम् ।

16.3.25

अन्नम्.एव.तद्.आत्मन्.धत्ते ।

16.3.26

अथो.रूपाणाम्.एव.एष.सोम.पीथः ।

16.3.27

रूपम्.एव.तद्.आत्मन्.धत्ते । (सोम: तृतीय.सवन)

16.3.28

आर्भवम्.शंसति ।

16.3.29

अत्र.ह्य्.एभ्यः.प्रजापतिर्.अवाकल्पयत् ।

16.3.30

तस्माद्.अत्र.आर्भवम्.शस्यते । (सोम: तृतीय.सवन)

16.3.31

अथ.वेनाम्.आदित्याम्.बार्हस्पत्याम्.इति.शंसति ।

16.3.32

शुक्रा.मन्थिनाव्.आग्रयणम्.इत्य्.एव.एताभिर्.अनुशंसति । (सोम: तृतीय.सवन)

16.3.33

अथो.वैश्वदेवम्.वै.शस्त्रम् ।

16.3.34

देवतानाम्.अपरिहाणाय.वैश्वदेवम्.शंसति ।

16.3.35

वैश्वदेवो.हि.ग्रहो.गृहीतो.भवति ।

16.3.36

तम्.एव.एतेन.अनुशंसति । (सोम: तृतीय.सवन)

16.3.37

तस्य.द्विः.पच्छः.परिधानीयाम्.शंसति ।

16.3.38

अर्धर्चशस्.तृतीयम् । (सोम: तृतीय.सवन)

16.3.39

सा.विराजम्.अभिसम्पद्यते ।

16.3.40

श्रीर्.विराड्.अन्न.अद्यम् ।

16.3.41

श्रियो.विराजो.अन्न.अद्यस्य.उपाप्त्यै । (सोम: तृतीय.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc