भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 16.2

16.2.1

ऐन्द्रार्भवीस्.तृतीय.सवन.उन्नीयमानेभ्यो.अन्वाह ।

16.2.2

यत्र.ह.तद्.ऋभवः.प्रजापतेः.प्रेमाणम्.प्रापुः । (सोम: तृतीय.सवन)

16.2.3

तद्.एनान्.इन्द्रः.सोम.पीथे.अन्वाभेजे ।

16.2.4

तस्मान्.न.आर्भवीषु.स्तुवते । (सोम: तृतीय.सवन)

16.2.5

अथ.आर्भवः.पवमान.इत्य्.आचक्षते ।

16.2.6

ऐन्द्रार्भव्या.तृतीय.सवने.प्रस्थितानाम्.यजति । (सोम: तृतीय.सवन)

16.2.7

इन्द्रम्.एव.तद्.अर्ध.भाजम्.सवनस्य.करोति ।

16.2.8

जगत्या.जागतम्.हि.तृतीय.सवनम् । (सोम: तृतीय.सवन)

16.2.9

मद्वत्या.मद्वद्द्.हि.तृतीय.सवनम् ।

16.2.10

अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम: तृतीय.सवन)

16.2.11

आहुतीनाम्.प्रतिष्ठित्यै ।

16.2.12

अथ.होत्राः.सम्यजन्ति.तासाम्.उक्तम्.ब्राह्मणम् ।

16.2.13

अथ.इडा.अथ.होतृ.चमसस्.तस्य.उक्तम्.ब्राह्मणम् । (सोम: तृतीय.सवन)

16.2.14

औपासनांस्.तृतीय.सवन.उपास्यन्ति ।

16.2.15

पितॄन्.एव.तत्.प्रीणन्ति ।

16.2.16

अथ.सावित्र.ग्रहेण.चरन्ति । (सोम: तृतीय.सवन)

16.2.17

प्रातः.सवन.एतम्.अग्रे.अयजन् ।

16.2.18

ताः.प्रजा.न.प्राजायन्त ।

16.2.19

तम्.माध्यंदिने.सवने । (सोम: तृतीय.सवन)

16.2.20

ता.उ.तर.नो.एव ।

16.2.21

तम्.अत्र.तृतीय.सवने.अयजन् ।

16.2.22

ततः.प्रजाः.प्राजायन्त । (सोम: तृतीय.सवन)

16.2.23

तस्मात्.तृतीय.सवने.अवधृतः.सविता ।

16.2.24

अथो.आदित्यानाम्.वा.एकः.सविता । (सोम: तृतीय.सवन)

16.2.25

आदित्यानाम्.तृतीय.सवनम् ।

16.2.26

तस्माद्.एनम्.तृतीय.सवने.यजन्ति । (सोम: तृतीय.सवन)

16.2.27

त्रिष्पुभम्.सावित्र.ग्रहस्य.पुरोनुवाक्याम्.अनूच्य.जगत्या.यजति । (सोम: तृतीय.सवन)

16.2.28

बलम्.वै.वीर्यम्.त्रिष्टुप् ।

16.2.29

पशवो.जगती ।

16.2.30

बल.एव.तद्.वीर्ये.अन्ततः.पशुषु.च.प्रतितिष्ठति । (सोम: तृतीय.सवन)

16.2.31

तस्य.न.अनुवषट्.करोति ।

16.2.32

प्राणो.वै.सावित्र.ग्रहः.संस्था.अनुवषट्.कारः । (सोम: तृतीय.सवन)

16.2.33

न.इत्.पुरा.कालात्.प्राणम्.संस्था.अपयानि.इति ।

16.2.34

युक्त.इव.ह्य्.अयम्.प्राणः ।

16.2.35

मद्वती.याज्या.मद्वद्द्.हि.तृतीय.सवनम् । (सोम: तृतीय.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc