कौषीतकिब्राह्मण · अध्याय 16.1
वसूनाम्.वै.प्रातः.सवनम् ।
रुद्राणाम्.माध्यंदिनम्.सवनम् ।
आदित्यानाम्.तृतीय.सवनम् । (सोम: तृतीय.सवन)
तद्.यद्.आदित्य.ग्रहेण.तृतीय.सवनम्.प्रतिपद्यते ।
स्वया.एव.तद्.देवतया.प्रतिपद्यते । (सोम: तृतीय.सवन)
अथो.धीर.रसम्.वा.एतत्.सवनम्.यत्.तृतीय.सवनम् ।
अथ.एष.सरसो.ग्रहो.यद्.आदित्य.ग्रहः । (सोम: तृतीय.सवन)
तेन.एव.तत्.तृतीय.सवनम्.सरसम्.करोति ।
त्रिष्टुभम्.आदित्य.ग्रहस्य.पुरोनुवाक्याम्.अनूच्य.त्रिष्टुभा.यजति । (सोम: तृतीय.सवन)
बलम्.वै.वीर्यम्.त्रिष्टुप् ।
बलम्.एव.तद्.वीर्यम्.यजमाने.दधाति । (सोम: तृतीय.सवन)
तस्य.न.अनुवषट्.करोति ।
सवन.ततिर्.वा.आदित्य.ग्रहः.संस्था.अनुवषट्.कारः । (सोम: तृतीय.सवन)
न.इत्.पुरा.कालात्.सवनम्.संस्था.अपयानि.इति ।
मद्वती.याज्या.मद्वद्द्.हि.तृतीय.सवनम् । (सोम: तृतीय.सवन)
अथ.स्तुते.पवमाने.पशुना.चरन्ति.तस्य.उक्तम्.ब्राह्मणम् ।
अथ.हविष्.पङ्क्त्या.चरन्ति.तस्या.उक्तम्.ब्राह्मणम् । (सोम: तृतीय.सवन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0