भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 15.6

15.6.1

नितराम्.परिधानीयाम्.शंसेत् ।

15.6.2

तथा.ह.पत्न्य्.अप्रच्यावुका.भवति ।

15.6.3

अनुदायिततराम् ।

15.6.4

तथा.ह.पत्न्य्.अनुद्धत.मना.इव.भवति । (सोम: माध्यंदिन.सवन)

15.6.5

आत्मा.वै.स्तोत्रियः.प्रजा.अनुरूपः ।

15.6.6

महिषी.धाय्या.प्रगाथः.पशवः । (सोम: माध्यंदिन.सवन)

15.6.7

आत्मा.सूक्तम्.यद्.अन्तर्.आत्मंस्.तन्.निवित् ।

15.6.8

प्रतिष्ठा.परिधानीय.अन्नम्.याज्या । (सोम: माध्यंदिन.सवन)

15.6.9

पवमाने.स्तूयमाने.होतारम्.मृत्युः.प्रत्यालीयत ।

15.6.10

तम्.आज्येन.न्यकरोद्.अन्यत्र.स्तोत्रियात् । (सोम: माध्यंदिन.सवन)

15.6.11

आद्ये.साम.आज्ये.प्रत्यलीयत ।

15.6.12

तम्.प्रौगेण.न्यकरोद्.अन्यत्र.स्तोत्रियात् । (सोम: माध्यंदिन.सवन)

15.6.13

तम्.माध्यंदिने.पवमाने.प्रत्यालीयते ।

15.6.14

तम्.मरुत्वतीयेन.न्यकरोद्.अन्यत्रे.एव.स्तोत्रियात् । (सोम: माध्यंदिन.सवन)

15.6.15

अथ.वै.निष्केवल्यम्.स्तोत्रियेण.एव.प्रतिपद्यते ।

15.6.16

तद्.यथा.अभये.अतिमुच्य.मृत्युम्.यथा.अतिमुमुचान.एवम् । (सोम: माध्यंदिन.सवन)

15.6.17

तद्.आहुर्.निष्केवल्यम्.एव.इदम्.निष्केवल्यम्.अदो.महा.व्रते.शस्यन्ते.वा.अमुत्र.चतुर्.उत्तराणि.कथम्.इह.उपाप्यन्त.इति । (सोम: माध्यंदिन.सवन)

15.6.18

तानि.वा.इह.उपाप्ततराणि.भवन्ति ।

15.6.19

स्तोत्रिय.अनुरूपौ.संशस्तौ.सप्त.चतुर्.उत्तराणि.सम्पद्यते । (सोम: माध्यंदिन.सवन)

15.6.20

चतुर्.अक्षरम्.च.पदम्.उदैति ।

15.6.19

स्तोत्रिय.अनुरूपौ.संशस्तौ.सप्त.चतुर्.उत्तराणि.सम्पद्यन्ते । (सोम: माध्यंदिन.सवन)

15.6.20

चतुर्.अक्षरम्.च.पदम्.उदैति ।

15.6.21

ते.पशवः ।

15.6.22

तान्.पशून्.यजमाने.दधाति ।

15.6.23

विराड्.वा.अग्निष्टोमः । (सोम: माध्यंदिन.सवन)

15.6.24

नवति.शतम्.स्तोत्रियाः.सम्पद्यन्ते ।

15.6.25

प्रत्यक्षम्.एव.एतद्.अग्निष्टोमस्य.रूपम्.उपैति.यद्.विराजा.यजति । (सोम: माध्यंदिन.सवन)

15.6.26

पिबा.सोमम्.इन्द्र.मन्दतु.त्वा.इति.पदम्.परिशिष्य.विराजो.अर्धर्चे.अवान्.इति । (सोम: माध्यंदिन.सवन)

15.6.27

श्रीर्.विराड्.अन्न.अद्यम् ।

15.6.28

श्रियाम्.तद्.विराज्य्.अन्न.अद्ये.प्रतितिष्ठति ।

15.6.29

उत्तरेण.विराजो.अर्धर्चेन.वषट्.करोति । (सोम: माध्यंदिन.सवन)

15.6.30

स्वर्ग.एव.तल्.लोके.यजमानम्.दधाति ।

15.6.31

अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम: माध्यंदिन.सवन)

15.6.32

आहुतीनाम्.प्रतिष्ठित्या.आहुतीनाम्.प्रतिष्ठित्यै । (सोम: माध्यंदिन.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc