कौषीतकिब्राह्मण · अध्याय 15.5
अथ.निष्केवल्यम् ।
बह्व्यो.देवताः.प्राच्यः.शस्यन्ते.बह्व्य.ऊर्ध्वाः । (सोम: माध्यंदिन.सवन)
अथ.एतद्.इन्द्रस्य.एव.निष्केवल्यम् ।
तन्.निष्केवल्यस्य.निष्केवल्यत्वम् । (सोम: माध्यंदिन.सवन)
अथ.यद्.बृहत्या.प्रतिपद्यते ।
बार्हतो.वा.एष.य.एष.तपति ।
तद्.एनम्.स्वेन.रूपेण.समर्धयति । (सोम: माध्यंदिन.सवन)
द्वे.तिस्रः.करोति.पुनर्.आदायम् ।
तत्.प्रजात्यै.रूपम् ।
द्वाव्.इव.वा.अग्रे.भवतः । (सोम: माध्यंदिन.सवन)
तत.उपप्रजायते ।
प्रतिरूपम्.अनुरूपम्.कुर्वीत ।
प्रतिरूपो.ह.एव.अस्य.प्रयाजाम्.आजायते.न.अप्रतिरूपः । (सोम: माध्यंदिन.सवन)
धाय्याम्.शंसति ।
प्राणो.वै.धाय्याः ।
प्राणम्.एव.तद्.आत्मन्.धत्ते । (सोम: माध्यंदिन.सवन)
प्रगाथम्.शंसति ।
पशवो.वै.प्रगाथः ।
पशूनाम्.एव.आप्त्यै । (सोम: माध्यंदिन.सवन)
अथो.प्राण.अपानौ.वै.बार्हतः.प्रगाथः ।
प्राण.अपानाव्.एव.तद्.आत्मन्.धत्ते । (सोम: माध्यंदिन.सवन)
इन्द्रस्य.नु.वीर्याणि.प्र.वोचम्.इति.पञ्चदशर्चम्.निष्केवल्यम् ।
पञ्चदशो.वै.वज्रः । (सोम: माध्यंदिन.सवन)
वज्रेण.एव.तद्.यजमानस्य.पाप्मानम्.हन्ति ।
तस्य.मध्ये.निविदम्.दधाति ।
मध्ये.वा.इदम्.आत्मनो.अन्नम्.धीयते । (सोम: माध्यंदिन.सवन)
अथ.निविदः.शंसति ।
प्राणा.वै.निविदः ।
प्राणान्.एव.तद्.आत्मन्.धत्ते ।
तासाम्.एक.एकम्.पदम्.अवग्राहम्.शंसति । (सोम: माध्यंदिन.सवन)
एक.एकम्.एव.तत्.प्राणम्.आत्मन्.धत्ते ।
उत्तमेन.प्रणौति ।
इदम्.एव.तत्.प्राणम्.उत्सृजते । (सोम: माध्यंदिन.सवन)
तस्माद्द्.हि.इमम्.प्राणम्.सर्वे.प्राणा.अनुप्राणन्ति ।
अथो.अन्नम्.निविद.इत्य्.अप्य्.आहुः । (सोम: माध्यंदिन.सवन)
तस्माद्.एना.आरतम्.शंसेत् ।
अत्वरमाण.इव.हि.प्रतिकामिनम्.अन्न.अद्यम्.अत्ति । (सोम: माध्यंदिन.सवन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0