कौषीतकिब्राह्मण · अध्याय 15.4
तद्.एतत्.पृतनाजि.देव.सूक्तम्.यन्.मरुत्वतीयम् ।
एतेन.हि.इन्द्रः.पृतना.अजयत् ।
तस्य.मध्ये.निविदम्.दधाति । (सोम: माध्यंदिन.सवन)
मध्ये.वा.इदम्.आत्मनो.अन्नम्.धीयते ।
अथ.निविदः.शंसति ।
प्राणा.वै.निविदः । (सोम: माध्यंदिन.सवन)
प्राणान्.एव.तद्.आत्मन्.धत्ते ।
तासाम्.एक.एकम्.पदम्.अवग्राहम्.शंसति । (सोम: माध्यंदिन.सवन)
एक.एकम्.एव.तत्.प्राणम्.आत्मन्.धत्ते ।
उत्तमेन.प्रणौति ।
इमम्.एव.तत्.प्राणम्.उत्सृजते । (सोम: माध्यंदिन.सवन)
तस्माद्द्.हि.इमम्.प्राणम्.सर्वे.प्राणा.अनुप्राणन्ति ।
अथो.अन्नम्.निविद.इत्य्.अप्य्.आहुः ।
तस्माद्.एना.आरतम्.शंसेत् । (सोम: माध्यंदिन.सवन)
अत्वरमाण.इव.हि.प्रतिकामिनम्.अन्न.अद्यम्.अत्ति ।
ये.त्व्.आहिहत्ये.मघवन्न्.अवर्धन्न्.इत्य्.उक्थम्.शस्त्वा.यजति । (सोम: माध्यंदिन.सवन)
ये.शाम्बरे.हरिवो.ये.गविष्ठाव्.इति ।
एतैर्.वा.एष.एतानि.सह.वीर्याण्य्.अकरोत् । (सोम: माध्यंदिन.सवन)
तैर्.एव.अस्य.एष.सह.सोम.पीथः ।
सा.वा.ऐन्द्री.त्रिष्टुब्.भवति ।
ऐन्द्रम्.हि.त्रैष्टुभम्.माध्यंदिनम्.सवनम् । (सोम: माध्यंदिन.सवन)
अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम: माध्यंदिन.सवन)
आहुतीनाम्.प्रतिष्ठित्यै ।
वाग्.एव.असौ.प्रथमा.अनुष्टुप् । (सोम: माध्यंदिन.सवन)
ताम्.पञ्च.गायत्र्यो.अनुवर्तन्ते ।
मन.इन्द्र.निहवः.श्रोत्रम्.ब्राह्मणस्पत्यः । (सोम: माध्यंदिन.सवन)
प्राणो.अपानो.व्यान.इति.तिस्र.एक.पातिन्यः ।
आत्मा.सूक्तम्.यद्.अन्तर्.आत्मंस्.तन्.निवित् । (सोम: माध्यंदिन.सवन)
प्रतिष्ठा.परिधानीय.अन्नम्.याज्या । (सोम: माध्यंदिन.सवन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0