भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 15.3

15.3.1

तद्.आहुर्.यन्न्.एव.स्तोत्रियो.न.अनुरूप.इन्द्र.निहवश्.च.ब्राह्मणस्पत्यश्.च.प्रगाथाव्.अथ.कस्मात्.पुनर्.आदायम्.ककुप्.कारम्.शस्येते.इति । (सोम: माध्यंदिन.सवन)

15.3.2

पुरर्.आदायम्.वै.सामगाः.पवमाने.स्तुवते ।

15.3.3

तस्य.एव.एतद्.रूपम्.क्रियते । (सोम: माध्यंदिन.सवन)

15.3.4

अग्निर्.नेता.भग.इव.क्षितीणाम्.त्वम्.सोम.ऋतुभिः.सुक्रतुर्.भूर्.इत्य्.अग्नीषोमीये ।

15.3.5

अग्नीइषोमौ.वा.अन्तर्.वृत्र.आस्ताम् ।

15.3.6

ताव्.इन्द्रो.न.अशक्नोद्.अभि.वज्रम्.प्रहर्तुम् ।

15.3.7

ताव्.एतम्.भागम्.उपनिचक्रामताम् । (सोम: माध्यंदिन.सवन)

15.3.8

यश्.च.एनयोर्.असौ.पौर्णमासे ।

15.3.9

तद्.एतद्.वार्त्रघ्नम्.एव.उक्थम्.यन्.मरुत्वतीयम् । (सोम: माध्यंदिन.सवन)

15.3.10

एतेन.हि.इन्द्रो.वृत्रम्.अहन् ।

15.3.11

पिन्वन्त्य्.अपो.मरुतः.सुदानव.इति.पिन्वन्त्य्.अपीया । (सोम: माध्यंदिन.सवन)

15.3.12

आपो.वै.पिन्वन्त्य्.अपीया ।

15.3.13

तद्.यद्.एव.वृत्रम्.हतम्.आपो.व्यायन् ।

15.3.14

यत्.प्रापिन्वंस्.तस्मात्.पिन्वन्त्य्.अपीया । (सोम: माध्यंदिन.सवन)

15.3.15

सा.वै.जगती ।

15.3.16

तया.सर्वाणि.सवनानि.जगद्वन्ति.भवन्ति ।

15.3.17

जनिष्ठा.उग्रः.सहसे.तुरीय.इति.जातवन्.मरुत्वतीयम् । (सोम: माध्यंदिन.सवन)

15.3.18

एतद्.वा.इन्द्रो.जायते.यद्.वृत्रम्.अहन् ।

15.3.19

एतद्.उ.वा.एष.जायते.यो.यजते ।

15.3.20

तस्य.प्रथमायाम्.अध्वर्युः.सकृन्.मद्वत्.प्रत्यागृणाति ।

15.3.21

अत्र.हि.इन्द्रः.प्रथमम्.अमाद्यत् । (सोम: माध्यंदिन.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc