भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 15.2

15.2.1

अथ.षड्विधम्.मरुत्वतीयम्.शंसति ।

15.2.2

षड्.वा.ऋतवः.संवत्सरः । (माध्यंदिन.सवन)

15.2.3

संवत्सरस्य.एव.आप्त्यै ।

15.2.4

अनुष्टुभम्.गायत्रीम्.बृहतीम्.उष्णिहम्.त्रिष्टुभम्.जगतीम्.इति.षट्.छन्दांसि.शंसति । (सोम: माध्यंदिन.सवन)

15.2.5

तस्मात्.षड्विधम्.भवति ।

15.2.6

आ.त्वा.रथम्.यथा.ऊतय.इत्य्.अनुष्टुभा.मरुत्वतीयम्.प्रतिपद्यते । (सोम: माध्यंदिन.सवन)

15.2.7

पवमान.उक्थम्.वा.एतद्.यन्.मरुत्वतीयम् ।

15.2.8

अनुष्टुप्.सोमस्य.छन्दः । (सोम: माध्यंदिन.सवन)

15.2.9

उक्तम्.पद.विग्रहणस्य.ब्राह्मणम् ।

15.2.10

गायत्रीः.शंसति ।

15.2.11

प्राणो.वै.गायत्र्यः । (सोम: माध्यंदिन.सवन)

15.2.12

प्राणम्.एव.तद्.आत्मन्.धत्ते ।

15.2.13

इदम्.वसो.सुतम्.अन्ध.इत्य्.अनुचरः.सुतवान्.पीतवान् । (सोम: माध्यंदिन.सवन)

15.2.14

पवमान.उक्थम्.ह्य्.एतत् ।

15.2.15

इन्द्र.नेदीय.एद्.इहि.इति.इन्द्र.निहवः.प्रगाथ । (सोम: माध्यंदिन.सवन)

15.2.16

नेदीय.उपनिष्क्राम.इति.ह.एनम्.मरुत.ऊचुः.प्रधर्षयन्तः । (सोम: माध्यंदिन.सवन)

15.2.17

सो.अब्रवीद्द्.हत्वा.वृत्रम्.विजित्य.युष्माभिर्.मे.अयम्.सह.सोम.पीथ.इति । (सोम: माध्यंदिन.सवन)

15.2.18

तैर्.एव.अस्य.एष.सह.सोम.पीथः ।

15.2.19

प्र.नूनम्.ब्रह्मणस्पतिर्.इति.ब्राह्मणस्पत्यः.प्रगाथः । (सोम: माध्यंदिन.सवन)

15.2.20

प्रहर.इत्.ह.एनम्.ब्रह्मा.उवाच.प्रधर्षयन् ।

15.2.21

सो.अब्रवीद्द्.हत्वा.वृत्रम्.विजित्य.त्वया.मे.अयम्.सह.सोम.पीथ.इति । (सोम: माध्यंदिन.सवन)

15.2.22

स.एष.ब्रह्मण.एव.सोम.पीथः ।

15.2.23

तस्मिन्.देवता.अन्वाभजत.इति.ह.स्म.आह.कौषीतकिः । (सोम: माध्यंदिन.सवन)

15.2.24

यस्मिन्न्.इन्द्रो.वरुणो.मित्रो.अरुयमा.देवा.ओकांसि.चक्रिर.इति ।

15.2.25

अत्र.देवता.अन्वाभक्ताः । (सोम: माध्यंदिन.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc