कौषीतकिब्राह्मण · अध्याय 15.1
देवा.वा.अर्बुदेन.च.पावमानीभिश्.च.ग्राव्णो.अभिष्टुत्या.आप्नुवन्न्.अमृतत्वम् । (सोम: माध्यंदिन.सवन)
आप्नुवन्त्.सत्यम्.संकल्पम् ।
तथो.एव.एतद्.यजमानो.यद्.अर्बुदेन.च.पावमानीभिश्.च.ग्राह्णो.अभिष्टौत्य्.आप्नोत्य्.अमृतत्वम् । (सोम: माध्यंदिन.सवन)
आप्नोति.सत्यम्.संकल्पम् ।
अथ.स्तुते.पवमाने.दधि.घर्मेण.चरन्ति ।
अत्र.कालो.हि.भवति । (सोम: माध्यंदिन.सवन)
अथो.सवनस्य.एव.सरसतायै ।
अथ.हविष्.पङ्क्त्या.चरन्ति.तस्या.उक्तम्.ब्राह्मणम् ।
भारद्वाज्या.मध्यंदिने.प्रस्थितानाम्.यजति ।
भरद्वाजो.ह.मध्यंदिन.इन्द्राय.सोमम्.प्रददौ ।
सा.वा.ऐन्द्री.त्रिष्टुब्.भवति । (सोम: माध्यंदिन.सवन)
आहुतीनाम्.प्रतिष्ठित्यै ।
अथ.होत्राः.सम्यजन्ति.तासाम्.उक्तम्.ब्राह्मणम् । (सोम: माध्यंदिन.सवन)
अथ.इडा.अथ.होतृ.चमसस्.तस्य.उक्तम्.ब्राह्मणम् ।
हुतेषु.दाक्षिणेषु.दक्षिणा.नीयन्ते । (सोम: माध्यंदिन.सवन)
अथो.दक्षिणाभिर्.वै.यज्ञम्.दक्षयति ।
तद्.यद्.दक्षिणाभिर्.वै.यज्ञम्.दक्षयति । (सोम: माध्यंदिन.सवन)
तस्माद्.दक्षिणा.नाम ।
आत्म.दक्षिणम्.वै.सत्रम् ।
तस्माद्.अहर्.अहर्.जपेयुः । (सोम: माध्यंदिन.सवन)
इदम्.अहम्.माम्.कल्याण्यै.कीर्त्यै.स्वर्गाय.लोकाय.अमृतत्वाय.दक्षिणाम्.नयन्ति । (सोम: माध्यंदिन.सवन)
वैश्वामित्रीम्.मरुत्वतीय.ग्रहस्य.पुरोनुवाक्याम्.अनूच्य.वैश्वामित्र्या.यजति । (सोम: माध्यंदिन.सवन)
सवन.ततिर्.वै.मरुत्वतीय.ग्रहः ।
वाग्.वै.विश्वामित्रः ।
वाचा.यज्ञस्.तायते । (सोम: माध्यंदिन.सवन)
ते.वा.ऐन्द्र्यौ.त्रिष्टुभौ.भवतः ।
ऐन्द्रम्.हि.त्रैष्टुभम्.माध्यंदिनम्.सवनम् । (सोम: माध्यंदिन.सवन)
अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै ।
आहुतीनाम्.प्रतिष्ठित्यै । (सोम: माध्यंदिन.सवन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0