भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 14.7

14.7.1

तानि.वै.सप्त.तृचानि.भवन्ति ।

14.7.2

सप्त.वै.छन्दांसि ।

14.7.3

सर्वेषाम्.एव.छन्दसाम्.आप्त्यै । (सोम: प्रातः.सवन)

14.7.4

अथो.एतैर्.वै.देवा.असुराणाम्.सप्त.साप्तान्य्.अवृञ्जत ।

14.7.5

तथो.एव.एतद्.यजमान.एतैर्.एव.द्विषतो.भ्रातृव्यस्य.सप्त.साप्तानि.वृङ्क्ते ।

14.7.6

अग्नेर्.अग्रे.प्रातः.सवनम्.आसीत् । (सोम: प्रातः.सवन)

14.7.7

इन्द्रस्य.माध्यंदिनम्.सवनम् ।

14.7.8

विश्वेषाम्.देवानाम्.तृतीय.सवनम् । (सोम: प्रातः.सवन)

14.7.9

सो.अग्निर्.अकामयत ।

14.7.10

स्यान्.मे.माध्यंदिने.सवने.अथो.तृतीय.सवन.इति । (सोम: प्रातः.सवन)

14.7.11

इन्द्रो.अकामयत ।

14.7.12

स्यान्.मे.प्रातः.सवने.अथो.तृतीय.सवन.इति ।

14.7.13

विश्वे.देवा.अकामयन्त ।

14.7.14

स्यान्.नो.माध्यंदिने.सवने.अथो.प्रातः.सवन.इति ।

14.7.15

ता.अमुतो.अर्वाच्यो.देवतास्.तृतीय.सवनात्.प्रातः.सवनम्.अभिप्रायुञ्जत । (सोम: प्रातः.सवन)

14.7.16

तद्.यद्.अभिप्रायुञ्जत ।

14.7.17

तत्.प्रौगस्य.प्रौगत्वम् ।

14.7.18

तस्माद्.बह्व्यो.देवताः.प्रौगे.शस्यन्ते ।

14.7.19

तस्मात्.सर्वाणि.सवनानि.सर्व.देवत्यानि.भवन्ति । (सोम: प्रातः.सवन)

14.7.20

वैश्वेभिः.सोम्यम्.मध्व्.इत्य्.उक्थम्.शस्त्वा.यजति.वैश्वदेव्याः ।

14.7.21

वैश्वदेवम्.ह्य्.एतद्.उक्थम् ।

14.7.22

गायत्र्या.गायत्रम्.प्रातः.सवनम् ।

14.7.23

अन्व्.इद्.उ.वषट्.करवद्.अन्विद्.उ.वषट्.करवत् । (सोम: प्रातः.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc