भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 14.6

14.6.1

गायत्रम्.प्रौगम्.शंसति ।

14.6.2

तेन.प्रातः.सवनम्.आप्तम् ।

14.6.3

ऐन्द्रम्.शंसति । (सोम: प्रातः.सवन)

14.6.4

तेन.माध्यंदिनम्.सवनम्.आप्तम् ।

14.6.5

वैश्वदेवम्.शंसति ।

14.6.6

तेन.तृतीय.सवनम्.आप्तम् ।

14.6.7

अथ.वैश्वदेवीम्.पुरोरुचम्.शंसति । (सोम: प्रातः.सवन)

14.6.8

सा.षट्.पदा.भवति ।

14.6.9

ताम्.ताम्.ऋतव.इत्य्.आहुः ।

14.6.10

षड्.ढ्य्.ऋतवः ।

14.6.11

तस्यै.द्वे.द्वे.पदे.अवग्राहम्.शंसति ।

14.6.12

तस्माद्.द्वन्द्वम्.समस्ता.ऋतव.आख्यायन्ते.ग्रीष्मो.वर्षा.हेमन्त.इति । (सोम: प्रातः.सवन)

14.6.13

अत्र.ह.एके.सारस्वतीम्.पुरोरुचम्.शंसन्ति ।

14.6.14

न.तथा.कुर्यात् ।

14.6.15

अतिरिक्तम्.तत् ।

14.6.16

रुचिता.वै.वाक् । (सोम: प्रातः.सवन)

14.6.17

स्वयम्.पुरोरुग्.वै.वाक् ।

14.6.18

वायव्.आ.याहि.दर्शत.अश्विना.यज्वरीर्.इष.इत्य्.एते.उभे.तत्.प्रौगम्.नवर्चम्.च.द्वादशर्चम्.च । (सोम: प्रातः.सवन)

14.6.19

तद्.एकविंशतिः ।

14.6.20

एकविंशो.वै.चतुष्टोमः.स्तोमानाम्.परमः ।

14.6.21

तत्.परमम्.स्तोमम्.आप्नोति । (सोम: प्रातः.सवन)

14.6.22

यद्.व्.एव.एकविंशतिः ।

14.6.23

द्वादश.मासाः.पञ्चर्तवस्.त्रय.इमे.लोकाः । (सोम: प्रातः.सवन)

14.6.24

असाव्.आदित्य.एकविंशः ।

14.6.25

तेन.एव.तत्.सलोकतायाम्.यजमानम्.अध्यूहति । (सोम: प्रातः.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc