भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 14.5

14.5.1

आज्यम्.शस्त्वा.प्रौगम्.शंसति ।

14.5.2

आत्मा.वै.यजमानस्य.आज्यम् ।

14.5.3

प्राणाः.प्रौगम् ।

14.5.4

तद्.यद्.आज्यम्.शस्त्वा.प्रौगम्.शंसति । (सोम: प्रातः.सवन)

14.5.5

.तथा.ह.यजमानः.सर्वम्.आयुर्.अस्मिंल्.लोक.एत्य.आप्नोत्य्.अमृतत्वम्.अक्षितिम्.स्वर्गे.लोके । (सोम: प्रातः.सवन)

14.5.6

पवमाने.स्तुत.आज्यम्.शंसति ।

14.5.7

आज्ये.स्तुते.प्रौगम् ।

14.5.8

तद्.एतत्.पवमान.उक्थम्.एव.यत्.प्रौगम् । (सोम: प्रातः.सवन)

14.5.9

आज्यम्.एव.आज्यस्य.उक्थम् ।

14.5.10

ते.एतद्.विहरति ।

14.5.11

यथा.रथस्य.अन्तरौ.रश्मी.व्यतिषजेद्.एवम्.तत् । (सोम: प्रातः.सवन)

14.5.12

ग्रहान्.अनु.शंसति.इति.ह.स्म.आह.कौषीतकिः ।

14.5.13

यो.असौ.वायोर्.इन्द्र.वाय्वोर्.ग्रहः । (सोम: प्रातः.सवन)

14.5.14

तम्.वायव्येन.च.ऐन्द्रवायवेन.च ।

14.5.15

मैत्रावरुणम्.मैत्रावरुणेन । (सोम: प्रातः.सवन)

14.5.16

आश्विनम्.आश्विनेन ।

14.5.17

यत्.प्रस्थितानाम्.यजति.तद्.ऐन्द्रेण ।

14.5.18

यद्द्.होत्राः.सम्यजन्ति.तद्.वैश्वदेवेन ।

14.5.19

वाग्.एव.सरस्वती.सर्वेषु.सवनेषु । (सोम: प्रातः.सवन)

14.5.20

अथ.वै.पुरोरुग्.असाव्.एव.यो.असौ.तपति ।

14.5.21

एष.हि.पुरस्ताद्.रोचते । (सोम: प्रातः.सवन)

14.5.22

अथ.वै.प्रुरुक्.प्राण.एव.आत्मा.सूक्तम् ।

14.5.23

अथ.वै.पुरोरुग्.आत्मा.एव ।

14.5.24

प्रजा.पशवः.सूक्तम्। (सोम: प्रातः.सवन)

14.5.25

तस्मान्.न.पुरोरुचम्.च.सूक्तम्.च.अन्तरेण.व्याह्वयते ।

14.5.26

संशस्य.पुरोरुचा.सूक्तम् । (सोम: प्रातः.सवन)

14.5.27

पुरोरुचे.पुरोरुच.एव.आह्वयते ।

14.5.28

वायुर्.अग्रेगास्.तत्.प्राण.रूपम् ।

14.5.29

वायवा.तद्.अपानस्य.रूपम् । (सोम: प्रातः.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc