भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 14.4

14.4.1

शोंसावो.इति.प्रातः.सवन.आह्वयते ।

14.4.2

शोंसामो.दैव.इत्य्.अध्वर्युः ।

14.4.3

तान्य्.अष्टाव्.अक्षराणि । (सोम: प्रातः.सवन)

14.4.4

उक्थम्.अवाचि.इति.प्रातः.सवन.उपांशु.होता.ब्रूयात् ।

14.4.5

उक्थशा.इत्य्.अध्वर्युः । (सोम: प्रातः.सवन)

14.4.6

तान्य्.अष्टौ ।

14.4.7

गायत्र्या.सवनम्.प्रतिपद्य.गायत्र्याम्.प्रत्यष्ठताम् । (सोम: प्रातः.सवन)

14.4.8

अध्वर्यो.शोंसावो.इति.माध्यंदिने.सवने.आह्वयते ।

14.4.9

शोंसामो.दैव.इत्य्.अध्वर्युः । (सोम: प्रातः.सवन)

14.4.10

तान्य्.एकादश.अक्षराणि ।

14.4.11

उक्थम्.अवाचि.इन्द्राय.इति.माध्यंदिने.सवने.उपांशु.होता.ब्रूयात् । (सोम: प्रातः.सवन)

14.4.12

उक्थशा.इत्य्.अध्वर्युः ।

14.4.13

तान्य्.एकादश ।

14.4.14

त्रिष्टुभा.सवनम्.परिपद्य.त्रिष्टुभि.प्रत्यष्ठाताम् ।

14.4.15

अध्वर्यो.शो.शोंसावो.इति.तृतीय.सवने.अभ्यासम्.आह्वयते । (सोम: प्रातः.सवन)

14.4.16

शो.शोंसामो.दैव.इत्य्.अध्वर्युः.प्रत्यभ्यस्यति ।

14.4.17

तानि.द्वादश.अक्षराणि । (सोम: प्रातः.सवन)

14.4.18

लोमशेन.त्रयोदश ।

14.4.19

वाचि.इन्द्राय.उक्थम्.देवेभ्य.इति.तृतीय.सवने.उपांशु.होता.ब्रूयात् । (सोम: प्रातः.सवन)

14.4.20

उखशा.इत्य्.अध्वर्युः ।

14.4.21

तानि.द्वादश ।

14.4.22

सम्प्रति.जगत्या.सवनम्.प्रतिपद्य.जगत्याम्.प्रत्यष्ठाताम् । (सोम: प्रातः.सवन)

14.4.23

एतद्.वै.तद्.यन्.मध्य.ओप्यते ।

14.4.24

स.यदि.ह.वा.अपि.व्यूढच्.छन्दा.भवति । (सोम: प्रातः.सवन)

14.4.25

क्लृप्तान्य्.एव.एवम्.विदुषश्.छन्दांसि.यज्ञम्.वहन्ति ।

14.4.26

अथो.एतद्.एष.ऋग्.अभ्यनूक्ता.इति.ह.स्म.आह । (सोम: प्रातः.सवन)

14.4.27

यद्.गायत्रे.अधि.गायत्रम्.आहितम्.त्रैष्टुभाद्.वा.त्रैष्टुभम्.निरतक्षत । (सोम: प्रातः.सवन)

14.4.28

यद्.वा.जगज्.जगत्य्.आहितम्.पदम्.य.इत्.तद्.विदुस्.ते.अमृतत्वम्.आनशुर्.इति । (सोम: प्रातः.सवन)

14.4.29

अथो.यद्.इमा.देवता.एषु.लोकेष्व्.अध्यूढाः ।

14.4.30

गायत्रे.अस्मिंल्.लोके.गायत्रो.अयम्.अग्निर्.अध्यूढः । (सोम: प्रातः.सवन)

14.4.31

त्रैष्टुभे.अन्तरिक्ष.लोके.त्रैष्टुभो.वायुर्.अध्यूढः ।

14.4.32

जागते.अमुष्मिंल्.लोके.जागतो.असाव्.आदित्यो.अध्यूढः । (सोम: प्रातः.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc