भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 14.3

14.3.1

तस्माद्.अनवानम्.संक्रामेत् ।

14.3.2

अमृतम्.वै.प्राणः ।

14.3.3

अमृतेन.तन्.मृत्युम्.तरति ।

14.3.4

समस्तेन.उत्तरेण.अर्धर्चेन.प्रणौति ।

14.3.5

वज्रम्.एव.तत्.पाप्मने.भ्रातृव्याय.प्रहरति । (सोम: प्रातः.सवन)

14.3.6

ता.दश.गायत्र्यः.सम्पद्यन्ते ।

14.3.7

अष्ट.अक्षरम्.हि.दशमम्.पदम् ।

14.3.8

गायत्री.वै.सा.या.अनुष्टुप् । (सोम: प्रातः.सवन)

14.3.9

गायत्रम्.अग्नेश्.छन्दः ।

14.3.10

दश.प्रातः.सवने.अध्वर्युर्.ग्रहान्.गृह्णाति ।

14.3.11

नवसु.बहिष्.पवमानेन.स्तुवते । (सोम: प्रातः.सवन)

14.3.12

हिंकारो.दशमः ।

14.3.13

दश.इमाः ।

14.3.14

ते.नाना.कुर्वन्तो.विराजम्.अभिषम्पादयन्ति । (सोम: प्रातः.सवन)

14.3.15

एतद्.वै.कृत्स्नम्.अन्न.अद्यम्.यद्.विराड्.एव ।

14.3.16

तत्.सम्पाद्य.यजमाने.प्रतिदधाति । (सोम: प्रातः.सवन)

14.3.17

त्रिः.प्रथमया.त्रिर्.उत्तमया.एकादश.सम्पद्यन्ते ।

14.3.18

याज्या.द्वादशी ।

14.3.19

द्वादश.वै.मासाः.संवत्सरः । (सोम: प्रातः.सवन)

14.3.20

संवत्सरस्य.एव.आप्त्यै ।

14.3.21

ताः.संशस्ताः.षोडश.गायत्र्यः.सम्पद्यन्ते । (सोम: प्रातः.सवन)

14.3.22

तद्.गायत्रीम्.आज्यम्.अभिसम्पद्यते ।

14.3.23

आग्नेन्द्र्या.यजति ।

14.3.24

इन्द्रम्.एव.तद्.अर्ध.भाजम्.सवनस्य.करोति । (सोम: प्रातः.सवन)

14.3.25

तस्याम्.देवता.अन्वाभजत.इति.ह.स्म.आह.कौषीतकिः ।

14.3.26

त्रयस्.त्रिंशद्.अक्षरा.वै.विराट् । (सोम: प्रातः.सवन)

14.3.27

त्रयस्.त्रिंशद्.देवताः ।

14.3.28

अक्षर.भाजो.देवताः.करोति ।

14.3.29

अग्न.इन्द्रश्.च.दाशुषो.दुरोण.इति.पदम्.परिशिष्य.विराजो.अर्धर्चे.अवान्.इति ।

14.3.30

श्रीर्.विराड्.अन्न.अद्यम् । (सोम: प्रातः.सवन)

14.3.31

श्रियाम्.तद्.विराज्य्.अन्न.अद्ये.प्रतितिष्ठति ।

14.3.32

उत्तरेण.विराजो.अर्धर्चेन.वषट्.करोति ।

14.3.33

स्वर्ग.एव.तल्.लोके.यजमानम्.दधाति ।

14.3.34

अनुवषट्.करोत्य्.आह्तीनाम्.एव.शान्त्यै ।

14.3.35

आहुतीनाम्.प्रतिष्ठित्यै । (सोम: प्रातः.सवन)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc