कौषीतकिब्राह्मण · अध्याय 14.2
एष.हि.इदम्.सर्वम्.निवेदयन्न्.एति ।
सा.पुरस्तात्.सूक्तस्य.प्रातः.सवने.धीयते । (सोम: प्रातः.सवन)
पुरस्ताद्द्.ह्य्.एष.तदा.भवति ।
मध्ये.सूक्तस्य.माध्यंदिने.सवने । (सोम: प्रातः.सवन)
मध्ये.ह्य्.एष.तदा.भवति ।
उत्तमाः.परिशिष्य.तृतीय.सवने ।
पश्चाद्द्.ह्य्.एष.तर्हि.परिक्रान्तो.भवति । (सोम: प्रातः.सवन)
तद्.एतस्य.एव.रूपेण.निविदम्.दधद्.एति ।
तद्.उ.वा.आहुर्.अञ्जयो.वै.प्रातः.सवनम्.वहन्ति । (सोम: प्रातः.सवन)
शिति.पृष्ठा.माध्यंदिनम्.सवनम् ।
श्वेत.अनुकाशास्.(.अनूकाशास्.).तृतीय.सवनम्.इत्य्.आदित्येन.एव । (सोम: प्रातः.सवन)
द्वादश.पदाम्.पुरोरुचम्.उपसंशंसति ।
द्वादश.वै.मासाः.संवत्सरः । (सोम: प्रातः.सवन)
संवत्सरस्य.एव.आप्त्यै ।
अथ.सप्तर्चम्.आज्यम्.शंसति ।
सप्त.वै.छन्दांसि । (सोम: प्रातः.सवन)
सर्वेषाम्.एव.छन्दसाम्.आप्त्यै ।
तद्.वा.आनुष्टुभम्.भवति ।
वाग्.अनुष्टुप् । (सोम: प्रातः.सवन)
तद्.यत्.किंच.वाचा.अनुष्टुभा.व्यनूक्तम्.तत्.सर्वम्.आप्नोति ।
पदे.विगृह्णाति ।
तत्.प्रजात्यै.रूपम् । (सोम: प्रातः.सवन)
वि.इव.वै.स्त्रियै.पुमान्.गृह्णाति ।
यद्.व्.एव.विगृह्णाति ।
प्रतिष्ठयोस्.तद्.रूपम् । (सोम: प्रातः.सवन)
अथो.एतद्द्.ह.वै.मृत्योर्.आस्यम्.यद्.एते.पदे.अन्तरेण ।
स.यो.अत्र.अव.अनन्तम्.ब्रूयात् । (सोम: प्रातः.सवन)
मृत्योर्.आस्यम्.आपाति.न.जीविष्यति.इति.तथा.ह.स्यात् । (सोम: प्रातः.सवन)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0