भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 14.1

14.1.1

अथ.अत.आज्यम् ।

14.1.2

आज्येन.वै.देवाः.सर्वान्.कामान्.आजयन्त्.सर्वम्.अमृतत्वम् । (सोम: प्रातः.सवन)

14.1.3

तथो.एव.एतद्.यजमान.आज्येन.एव.सर्वान्.कामान्.आजयति.सर्वम्.अमृतत्वम् । (सोम: प्रातः.सवन)

14.1.4

तद्.वा.इदम्.षड्विधम्.आज्यम् ।

14.1.5

तूष्णीम्.जपस्.तूष्णीम्.शंसः.पुरोरुक्.सूक्तम्.उक्थ.वीर्यम्.याज्या.इति । (सोम: प्रातः.सवन)

14.1.6

षड्.ऋतुः.संवत्सरः.षड्विधः ।

14.1.7

एतेन.वै.देवाः.षड्विधेन.आज्येन.षड्.ऋतुम्.संवत्सरम्.आप्नुवन्.षड्विधम् । (सोम: प्रातः.सवन)

14.1.8

संवत्सरेण.सर्वान्.कामान्त्.सर्वम्.अमृतत्वम् ।

14.1.9

तथो.एव.एतद्.यजमान.एतेन.एव.षड्विधेन.आज्येन.षड्.ऋतुम्.संवत्सरम्.आप्नोति.षड्विधम् । (सोम: प्रातः.सवन)

14.1.10

संवत्सरेण.सर्वान्.कामान्त्.सर्वम्.अमृतत्वम् ।

14.1.11

अथ.यत्.पुरस्तात्.तूष्णीम्.जपम्.जपति ।

14.1.12

स्वर्गो.वै.लोको.यज्ञः । (सोम: प्रातः.सवन)

14.1.13

तद्.यत्.पुरस्तात्.तूष्णीम्.जपम्.जपति ।

14.1.14

स्वस्त्ययनम्.एव.तत्.कुरुते.स्वर्गस्य.लोकस्य.समष्ट्यै । (सोम: प्रातः.सवन)

14.1.15

अथ.एतम्.तूष्णीम्.शंसम्.उपांशु.संशति ।

14.1.16

सर्वेषाम्.एव.कामानाम्.आप्त्यै । (सोम: प्रातः.सवन)

14.1.17

अग्निर्.ज्योतिर्.ज्योतिर्.अग्निर्.इति ।

14.1.18

तद्.इमंल्.लोकंल्.लोकानाम्.आप्नोति । (सोम: प्रातः.सवन)

14.1.19

प्रातः.सवनम्.यज्ञस्य ।

14.1.20

इन्द्रो.ज्योतिर्.ज्योतिर्.इन्द्र.इति ।

14.1.21

तद्.अन्तरिक्ष.लोकंल्.लोकानाम्.आप्नोति । (सोम: प्रातः.सवन)

14.1.22

माध्यंदिनम्.सवनम्.यज्ञस्य ।

14.1.23

सूर्यो.ज्योतिर्.ज्योतिः.सूर्य.इति । (सोम: प्रातः.सवन)

14.1.24

तद्.अमुंल्.लोकंल्.लोकानाम्.आप्नोति ।

14.1.25

तृतीय.सवनम्.यज्ञस्य ।

14.1.26

अथ.वै.निविद्.असाव्.एव.यो.असौ.तपति ।

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc