भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 13.7

13.7.1

प्राणा.वै.ऋतु.याजाः ।

13.7.2

तद्.यद्.ऋतु.याजैश्.चरन्ति ।

13.7.3

प्राणान्.एव.तद्.यजमाने.दधति ।

13.7.4

स.वा.अयम्.त्रेधा.विहितः.प्राणः.प्राणो.अपानो.व्यान.इति । (सोम: सोम.भेद.विचार)

13.7.5

षड्.ऋतुना.इति.यजन्ति । (सोम: सोम.भेद.विचार)

13.7.6

प्राणम्.एव.तद्.यजमाने.दधति ।

13.7.7

चत्वार.ऋतुभिर्.इति.यजन्ति । (सोम: सोम.भेद.विचार)

13.7.8

अपानम्.एव.तद्.यजमाने.दधति ।

13.7.9

द्विर्.ऋतुना.इत्य्.उपरिष्टात् ।

13.7.10

व्यानम्.एव.तद्.यजमाने.दधाति । (सोम: सोम.भेद.विचार)

13.7.11

तथा.ह.यजमानः.सर्वम्.आयुर्.अस्मिंल्.लोक.एत्य.आप्नोत्य्.अमृतत्वम्.अक्षितिम्.स्वर्गे.लोके । (सोम: सोम.भेद.विचार)

13.7.12

ते.वा.एते.प्राणा.एव.यद्.ऋतु.याजाः ।

13.7.13

तस्माद्.अनवानम्.यजन्ति.प्राणानाम्.संतत्यै ।

13.7.14

संतता.इव.हि.इमे.प्राणाः । (सोम: सोम.भेद.विचार)

13.7.15

न.अनुवषट्.कुर्वन्ति ।

13.7.16

प्राणा.वा.ऋतु.याजाः ।

13.7.17

संस्था.अनुवषट्.कारः । (सोम: सोम.भेद.विचार)

13.7.18

न.इत्.पुरा.कालात्.प्राणान्त्.संस्थापयाम.इति ।

13.7.19

युक्ता.इव.हि.इमे.प्राणाः । (सोम: सोम.भेद.विचार)

13.7.20

तद्.आहुः.कस्माद्द्.होता.यक्षद्द्.होता.यक्षद्.इत्य्.एव.सर्वेभ्यः.प्रेष्यति.इति । (सोम: सोम.भेद.विचार)

13.7.21

वाग्.वै.होता ।

13.7.22

वाग्.यक्षद्.वाग्.यक्षद्.इत्य्.एव.तद्.आह ।

13.7.23

अथो.सर्वे.वा.एते.सप्त.होतारः । (सोम: सोम.भेद.विचार)

13.7.24

अपि.वा.ऋचा.अभ्युदितम् ।

13.7.25

सप्त.होतार.ऋतुषो.यजन्ति.इति ।

13.7.26

अथ.यद्.द्विर्.उपरिष्टाद्.व्यादिशत्य्.अजामितायै । (सोम: सोम.भेद.विचार)

13.7.27

ते.वै.द्वादश.भवन्ति ।

13.7.28

द्वादश.वै.मासाः.संवत्सरः ।

13.7.29

संवत्सरस्य.एव.आप्त्यै । (सोम: सोम.भेद.विचार)

13.7.30

स.यो.अत्र.भक्षयेत् ।

13.7.31

यस्.तम्.तत्र.ब्रूयात् ।

13.7.32

अशान्तो.भक्षो.अननुवषट्.कृतः । (सोम: सोम.भेद.विचार)

13.7.33

प्राणान्.अस्य.व्यगान्.न.जीविष्यति.इति.तथा.ह.स्यात् । (सोम: सोम.भेद.विचार)

13.7.34

य.उ.वै.न.भक्षयेत् ।

13.7.35

यस्.तम्.तर.ब्रूयात् ।

13.7.36

प्राणो.भक्षः ।

13.7.37

प्राणाद्.आत्मानम्.अन्तरगान्.न.जीविष्यति.इति.तथा.ह.एव.स्यात् । (सोम: सोम.भेद.विचार)

13.7.38

लिम्पेद्.इव.एव.अव.इव.जिघ्रेद्.अत्र.च.द्विदेवत्येषु.चैति ।

13.7.39

तद्.उ.तत्र.शासनम्.वेदयन्ते ।

13.7.40

अथ.यद्.अमू.व्यतिचरतः ।

13.7.41

न.अन्योन्यम्.अनुप्रपद्येते.अध्वर्यू । (सोम: सोम.भेद.विचार)

13.7.42

तस्माद्.ऋतुर्.ऋतुम्.न.अनुप्रपद्यत.ऋतुर्.ऋतुम्.न.अनुप्रपद्यते । (सोम: सोम.भेद.विचार)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc