कौषीतकिब्राह्मण · अध्याय 13.6
संस्रवान्.होतृ.चमसे.अवनयति ।
इडा.भाज.एव.एनांस्.तत्.करोति । (सोम: सोम.भेद.विचार)
अथ.इडाम्.उपह्वयते ।
उपोद्यच्छन्ति.चमसान् ।
होतृ.चमसम्.अन्वारभते । (सोम: सोम.भेद.विचार)
असंस्पर्शन्न्.उपह्वयत.इडाम् ।
वज्रो.वा.आज्यम् ।
रेतः.सोमः ।
न.इद्.वज्रेण.रेतो.हिनसानि.इति । (सोम: सोम.भेद.विचार)
तस्याम्.न.सुन्वद्.आह ।
न.आशिषो.निराह ।
उपहूय.इडाम्.अवघ्राय.अवस्यति । (सोम: सोम.भेद.विचार)
प्राश्नात्य्.उत्तरा.इडाम् ।
अथ.अप.आचम्य.होतृ.चमसम्.भक्षयति । (सोम: सोम.भेद.विचार)
एतद्.वै.परमम्.अन्न.अद्यम्.यत्.सोमः ।
परमम्.एव.एतद्.अन्न.अद्यम्.सर्वे.समुपहूय.भक्षयन्ति । (सोम: सोम.भेद.विचार)
अथ.वै.प्रत्युपहवो.अच्छावाकस्य ।
प्रत्येता.वामा.सूक्तायम्.(?).सुन्वन्.यजमानो.अग्रभीत् । (सोम: सोम.भेद.विचार)
उत.पतिष्ठा.उत.उपवक्तर्.उत.नो.गाव.उपहूता.इति ।
यदि.न.उपजुहूषति ।
उत.उपहूत.इत्य्.अभ्यस्यति.यद्य्.उपजुहूषते ।
प्रत्युपहूतो.अच्छावाको.निवर्तध्वम्.मा.अनुगाता.इत्य्.एतस्य.सूक्तस्य.यावतीः.पर्याप्नुयात्.तावतीर्.अनुद्रवेत् । (सोम: सोम.भेद.विचार)
होता.वा.अच्छावाकम्.अप्रतिकामिनम् ।
सो.तत्र.प्रायश्.चित्तिः । (सोम: सोम.भेद.विचार)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0