भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 13.5

13.5.1

तस्माद्.अनवानम्.यजति.प्राणानाम्.संतत्यै ।

13.5.2

संतता.इव.हि.इमे.प्राणाः । (सोम: सोम.भेद.विचार)

13.5.3

न.अनुवषट्.करोति ।

13.5.4

प्राणा.वै.द्विदेवत्याः ।

13.5.5

संस्था.अनुवषट्.कारः । (सोम: सोम.भेद.विचार)

13.5.6

न.इत्.पुरा.कालात्.प्राणान्त्.संस्थापयानि.इति ।

13.5.7

यक्ता.(.युक्ता.?).इव.हि.इमे.प्राणाः । (सोम: सोम.भेद.विचार)

13.5.8

ऐन्द्रावायवम्.पूर्व.अर्धम्.सादयति ।

13.5.9

पूर्व.अर्ध्यो.ह्य्.एष.एषाम्.प्राणाम्.अभिधानतम.इव । (सोम: सोम.भेद.विचार)

13.5.10

अभित.इतरौ.पश्चाद्.उपनिदधाति ।

13.5.11

अभित.इव.हि.इदम्.चक्शुश्.च.श्रोत्रम्.च । (सोम: सोम.भेद.विचार)

13.5.12

तान्.अवगृह्य.आस्ते ।

13.5.13

न.इत्.प्रवृत्त.अन्ता.इति ।

13.5.14

न.अपिदधाति ।

13.5.15

प्राणा.वै.द्विदेवत्याः । (सोम: सोम.भेद.विचार)

13.5.16

न.इत्.प्राणान्.अपिदधानि.इति ।

13.5.17

इदम्.ते.सोम्यम्.मध्व्.इति.प्रस्थितानाम्.याज्या.मधु.श्चुताम्.मधुमती ।

13.5.18

अनुवषट्.करोत्य्.आहुतीनाम्.एव.शान्त्यै । (सोम: सोम.भेद.विचार)

13.5.19

आहुतीनाम्.प्रतिष्ठित्यै ।

13.5.20

अथ.होत्राः.सम्यजन्ति ।

13.5.21

यजमानम्.एव.तद्.अनृणतायै.सम्प्रमुञ्चन्ति । (सोम: सोम.भेद.विचार)

13.5.22

द्विदेवत्यानाम्.प्रथमो.भक्षः ।

13.5.23

अथ.इडा.अथ.होतृ.चमस्ह । (सोम: सोम.भेद.विचार)

13.5.24

आत्मा.वै.यजमानस्य.पुरोडाशाः ।

13.5.25

प्राणा.द्विदेवत्याः ।

13.5.26

अन्नम्.पशव.इडा । (सोम: सोम.भेद.विचार)

13.5.27

अन्नेन.वै.प्राणाश्.च.आत्मा.च.संहितः ।

13.5.28

तस्माद्.द्विदेवत्यानाम्.प्रथमो.भक्षः । (सोम: सोम.भेद.विचार)

13.5.29

अथ.इडा.अथ.होतृ.चमसः ।

13.5.30

तान्.अध्वर्यवे.प्रयच्छति ।

13.5.31

न.अनुसृजत्या.शेषस्य.अवनयनात् । (सोम: सोम.भेद.विचार)

13.5.32

प्राणा.वै.द्विदेवत्याः ।

13.5.33

न.इत्.प्राणान्.अनुसृजानि.इति ।

13.5.34

द्विर्.ऐन्द्रवायवस्य.भक्षयति । (सोम: सोम.भेद.विचार)

13.5.35

द्विर्.हि.तस्य.वष्टक्.करोति ।

13.5.36

सकृन्.मैत्रावरुणस्य ।

13.5.37

सकृद्.आश्विनस्य ।

13.5.38

सर्वतः.परिहारम्.आश्विनस्य.भक्षयति ।

13.5.39

सर्वतो.ह्य्.अनेन.श्रोत्रेण.शृणोति । (सोम: सोम.भेद.विचार)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc