कौषीतकिब्राह्मण · अध्याय 13.4
दश.त्वा.एते.सोम.अंशवः ।
प्रत्नो.अंशुर्.यम्.एतम्.अभिषुण्वन्ति ।
तृप्तो.अंशुर्.आपः । (सोम: सोम.भेद.विचार)
रसो.अंशुर्.व्रीहिः ।
वृषो.अंशुर्.यवः ।
शुक्रो.अंशुः.पयः ।
जीवो.अंशुः.पशुः । (सोम: सोम.भेद.विचार)
अमृतो.अंशुर्.हिरण्यम् । (सोम: सोम.भेद.विचार)
ऋग्.अंशुर्.यजुर्.अंशुः.साम.अंशुर्.इति ।
एत.वा.उ.दश.सोम.अंशवः । (सोम: सोम.भेद.विचार)
यदा.वा.एते.सर्वे.संगच्छन्ते ।
अतः.सोमो.अतः.सुतः ।
पुरोडाशैर्.चरित्वा.द्विदेवत्यश्.चरन्ति ।
आत्मा.वै.यजमानस्य.पुरोडाशाः । (सोम: सोम.भेद.विचार)
प्राणा.द्विदेवत्याः ।
तद्.यत्.पुरोडाशैश्.चरित्वा.द्विदेवत्यैश्.चरन्ति ।
तथा.ह.यजमानः.सर्वम्.आयुर्.अस्मिंल्.लोक.एत्य.आप्नोत्य्.अमृतत्वम्.अक्षितिम्.स्वर्गे.लोके । (सोम: सोम.भेद.विचार)
ते.वा.एते.प्राणा.एव.यद्.द्विदेवत्याः ।
वाग्.एव.इन्द्रः ।
प्राणो.वायुः ।
चक्षुर्.मैत्रावरुणः ।
श्रोत्रम्.आश्विनः । (सोम: सोम.भेद.विचार)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0