भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 13.3

13.3.1

हविर्.अग्रे.वीहि.इत्य्.अनुसवनम्.पुरोडाश.स्विष्टकृतो.यजति ।

13.3.2

अवत्सारोह.प्राश्रवणो.देवानाम्.होता.आस । (सोम: हविष्.पङ्क्ति.याग)

13.3.3

तम्.एतस्मिन्.द्युम्ने.मृत्युः.प्रत्यालिल्ये ।

13.3.4

अग्निर्.वै.मृत्युः ।

13.3.5

स.हविर्.अग्ने.वीहि.इति.हविषा.अग्निम्.प्रीत्वा.अथ.अतिमुमुचे । (सोम: हविष्.पङ्क्ति.याग)

13.3.6

तथो.एव.एवम्.विद्वान्.होता.हविर्.अग्ने.वीहि.इत्य्.एव.हविषा.अग्निम्.प्रीत्वा.अथ.अतिमुच्यते । (सोम: हविष्.पङ्क्ति.याग)

13.3.7

एतैर्.ह.वा.अन्तर्.आकाशैर्.देवाः.स्वर्गंल्.लोकम्.जग्मुः ।

13.3.8

तान्.एतस्मिन्.द्युम्ने.मृत्युः.प्रत्यालिल्ये । (सोम: हविष्.पङ्क्ति.याग)

13.3.9

अग्निर्.वै.मृत्युः ।

13.3.10

ते.हविर्.अग्ने.वीहि.इति.हविषा.अग्निम्.प्रीत्वा.अथ.अतिमुमुचिरे । (सोम: हविष्.पङ्क्ति.याग)

13.3.11

तथो.एव.एवम्.विद्वान्.होता.हविर्.अग्ने.वीहि.इत्य्.एव.हविषा.अग्निम्.प्रीत्वा.अथ.अतिमुच्यते । (सोम: हविष्.पङ्क्ति.याग)

13.3.12

तानि.वा.एतानि.षड्.अक्षराणि.हविर्.अग्ने.वीहि.इति ।

13.3.13

षड्.अङ्गो.अयम्.आत्मा.षड्विधः । (सोम: हविष्.पङ्क्ति.याग)

13.3.14

तद्.आत्मना.एव.आत्मानम्.निष्क्रीय.अनृणो.भूत्वा.अथ.यजते । (सोम: हविष्.पङ्क्ति.याग)

13.3.15

स.एषो.अवत्सारस्य.प्राश्रवणस्य.मन्त्रः ।

13.3.16

स.न.मन्येत.केन.वा.नु.केन.वा.यजामि.इति ।

13.3.17

ऋषि.कृतेन.मन्त्रेण.ऋचा.यजामि.इत्य्.एव.विद्यात् । (सोम: हविष्.पङ्क्ति.याग)

13.3.18

अथ.सोम.इति.वै.पशुम्.अवोचाम ।

13.3.19

एवम्.पुरोडाशान् । (सोम: हविष्.पङ्क्ति.याग)(त्त्त्)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc