भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 13.2

13.2.1

तद्.आहुर्.यया.वै.प्रातर्.यजत्य्.ऋक्.सा.तद्.अहर्.यात.यामा.भवत्य्.अथ.कस्माद्.एषा.सर्वेषु.सवनेष्व्.अयात.यामा.इति । (सोम: हविष्.पङ्क्ति.याग)

13.2.2

यद्.एव.सवनैर्.वितारयन्न्.एति ।

13.2.5

प्रातः.प्रातः.सावस्य.इति.तृतीय.सवने । (सोम: हविष्.पङ्क्ति.याग)

13.2.6

तेन.अयात.यामा ।

13.2.7

तद्.आहुः.कस्मात्.प्रातर्.एव.पयस्या.न.माध्यंदिने.न.तृतीय.सवन.इति । (सोम: हविष्.पङ्क्ति.याग)

13.2.8

यज्ञो.वै.मैत्रावरुणः ।

13.2.9

एतद्.वै.यज्ञो.जायते.यत्.प्रातः.सवने । (सोम: हविष्.पङ्क्ति.याग)

13.2.10

पयो.भाजनो.वै.तरुणः.कुमारः ।

13.2.11

तद्.यथा.जाताय.स्तनम्.उपदध्याद्.एवम्.तत् । (सोम: हविष्.पङ्क्ति.याग)

13.2.12

वृद्धो.वा.उत्तरयोः.सवनयोः ।

13.2.13

यदा.वै.वर्धते ।

13.2.14

अतिस्तनो.वै.तदा । (सोम: हविष्.पङ्क्ति.याग)

13.2.15

तस्मात्.प्रातर्.एव.पयस्या.न.माध्यंदिने.न.तृतीय.सवन.इति । (सोम: हविष्.पङ्क्ति.याग)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc