भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 13.1

13.1.1

प्रजापतिर्.वै.यज्ञः ।

13.1.2

तस्मिन्त्.सर्वे.कामाः.सर्वम्.अमृतत्वम् ।

13.1.3

तस्य.एते.गोप्तारो.यद्.धिष्ण्याः । (सोम: सदः.प्रसर्पण)

13.1.4

तान्त्.सदः.पस्रप्स्यन्.नमस्यति.नमो.नम.इति ।

13.1.5

न.हि.नमस्.कारम्.अति.देवाः ।

13.1.6

ते.नमसिता.होतारम्.अतिसृजन्ते ।

13.1.7

स.एतम्.प्रजापतिम्.यज्ञम्.प्रपद्यते । (सोम: सदः.प्रसर्पण)

13.1.8

तद्.अत्र.एव.यजमानः.सर्वान्.कामान्.आप्नोति.सर्वम्.अमृतत्वम् । (सोम: सदः.प्रसर्पण)

13.1.9

अथ.हविष्.पङ्क्त्या.चरन्ति ।

13.1.10

पशवो.वै.हविष्.पङ्क्तिः ।

13.1.11

पशूनाम्.एव.आप्त्यै ।

13.1.12

तानि.वै.पञ्च.हवींषि.भवन्ति । (सोम: हविष्.पङ्क्ति.याग)

13.1.13

दधि.धानाः.सक्तवः.पुरोडाशः.पयस्य.इति ।

13.1.14

पञ्चपदा.पक्तिः ।

13.1.15

पाङ्क्तो.यज्ञः ।

13.1.16

पाङ्क्ताः.पशवः ।

13.1.17

पाङ्क्तः.पुरुषः ।

13.1.18

यज्ञस्य.च.पशूनाम्.च.आप्त्यै । (सोम: हविष्.पङ्क्ति.याग)

13.1.19

सा.इयम्.निरुप्यते.पशूनाम्.एव.परिग्रहाय ।

13.1.20

अथो.सवनानाम्.एव.तीव्री.काराय । (सोम: हविष्.पङ्क्ति.याग)

13.1.21

अथ.वै.हविष्.पङ्क्तिः.प्राण.एव ।

13.1.22

तस्माद्.येन.एव.मैत्रावरुणः.प्रेष्यति.तेन.होता.यजति । (सोम: हविष्.पङ्क्ति.याग)

13.1.23

समानो.ह्य्.अयम्.प्राणः । (सोम: हविष्.पङ्क्ति.याग)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc