कौषीतकिब्राह्मण · अध्याय 12.10
तस्यै.वा.एतस्या.एकादशिन्यै.याज्या.पुरोनुवाक्याश्.चैव.नाना । (सोम: एकादशिनी)
मनोतायै.च.हविषः ।
अथ.इतरत्.समानम् ।
आग्नेयः.प्रथमः । (सोम: एकादशिनी)
ब्रह्म.वा.अग्निः ।
ब्रह्म.यशसस्य.अवरुद्ध्यै ।
सारस्वतो.द्वितीयः । (सोम: एकादशिनी)
वाग्.वै.सरस्वती ।
वाचा.वा.इदम्.स्वदितम्.अन्नम्.अद्यते.अन्न.अद्यस्य.उपाप्त्यै । (सोम: एकादशिनी)
सौम्यस्.तृतीयः ।
क्षत्रम्.वै.सोमः । (सोम: एकादशिनी)
क्षत्र.यशसस्य.अवरुद्ध्यै ।
पौष्णश्.चतुर्थः ।
अन्नम्.वै.पूषा । (सोम: एकादशिनी)
अन्न.अद्यस्य.उपाप्त्यै ।
बार्हस्पत्यः.पञ्चमः ।
ब्रह्म.वै.बृहस्पतिः । (सोम: एकादशिनी)
ब्रह्म.यशसस्य.अवरुद्ध्यै ।
वैश्वदेवः.षष्ठः ।
विश्व.रूपम्.वा.इदम्.अन्नम्.अद्यते.अन्न.अद्यस्य.उपाप्त्यै । (सोम: एकादशिनी)
ऐन्द्रः.सप्तमः ।
क्षत्रम्.वा.इन्द्रः ।
क्षत्र.यशसस्य.अवरुद्ध्यै । (सोम: एकादशिनी)
मारुतो.अष्टमः ।
आपो.वै.मरुतः ।
ब्रह्म.क्षत्रे.वा.इन्द्राग्नी । (सोम: एकादशिनी)
ब्रह्म.यशसस्य.च.क्षत्र.यशसस्य.च.अवरुद्ध्यै ।
सावित्रो.दशमः । (सोम: एकादशिनी)
सवितृ.प्रसूतम्.वा.इदम्.अन्नम्.अद्यते.अन्न.अद्यस्य.उपाप्त्यै ।
वारुण.एकादशः । (सोम: एकादशिनी)
क्षत्रम्.वै.वरुणः ।
क्षत्र.यशसस्य.अवरुद्ध्यै ।
एवम्.वै.प्रजापतिर्.ब्रह्मणा.च.क्षत्रेण.च.क्षत्रेण.च.ब्रह्मणा.च.उभयतो.अन्न.अद्यम्.परिहृह्णानो.अवरुन्धान.ऐत् । (सोम: एकादशिनी)
तथो.एव.एतद्.यजमान.एवम्.एव.ब्रह्मणा.च.क्षत्रेण.च.क्षत्रेण.च.ब्रह्मणा.च.उभयतो.अन्न.अद्यम्.परिगृह्णानो.अवरुन्धान.एत्य्.अवरुन्धान.एति । (सोम: एकादशिनी)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0