कौषीतकिब्राह्मण · अध्याय 12.9
अथ.आवाहने ।
आवह.देवान्.यजमानाय ।
अग्निम्.अग्न.आवह.वनस्पतिम्.आवह.इन्द्रम्.वसुमन्तम्.आवह.इति । (सोम: एकादशिनी)
तत्.प्रातः.सवनम्.आवाहयति ।
इन्द्रम्.रुद्रवन्तम्.आवह.इति । (सोम: एकादशिनी)
तन्.माध्यंदिनम्.सवनम्.आवाहयति ।
इन्द्रम्.आदित्यवन्तम्.ऋभुमन्तम्.विभुमन्तम्.वाजवन्तम्.बृहस्पतिवन्तम्.विश्व.देव्या.वन्तम्.आवह.इति । (सोम: एकादशिनी)
तत्.तृतीय.सवनम्.आवाहयति ।
अत.उ.ह.एके.वनस्पतिम्.आवाहयन्ति। (सोम: एकादशिनी)
अन्तत.आवाह्यः ।
तृतीय.सवने.ह्य्.एनम्.यजन्ति.इति.वदन्तः ।
तद्.उ.वा.आहुर्.आत्मा.वै.पशुः । (सोम: एकादशिनी)
प्राणो.वनस्पतिः ।
यस्.तम्.तत्र.ब्रूयात् ।
प्राणाद्.आत्मानम्.अन्तरगान्.न.जीविष्यति.इति.तथा.ह.स्यात् ।
तस्मात्.पशुम्.एव.उपसंधाय.वनस्पतिर्.आवाह्यः ।
मीमांसितः.पशुः ।
प्रजापतिः.प्रजा.सृष्ट्वा.रिरिचान.इव.अमन्यत । (सोम: एकादशिनी)
स.ह.ऐक्षत ।
कथम्.नु.तेन.यज्ञ.क्रतुना.यजेय.येन.इष्ट्वा.उप.कामान्.आप्नुयाम्.अव.अन्न.अद्यम्.रुन्धीय.इति । (सोम: एकादशिनी)
स.ताम्.एकादशिनीम्.अपश्यत् ।
ताम्.आहरत्.तया.अयजत । (सोम: एकादशिनी)
तया.इष्ट्वा.उप.कामान्.आप्नोद्.अव.अन्न.अद्यम्.अरुन्धत ।
तथो.एवैतद्.यजमान.एतया.एव.एकादशिन्या.इष्ट्वा.उप.कामान्.आप्नोत्य्.अव.अन्न.अद्यम्.रुन्धे । (सोम: एकादशिनी)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0