भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 12.8

12.8.1

तम्.एतम्.ऐन्द्राग्नः.स्याद्.इति.ह.एक.आहुः ।

12.8.2

इन्द्राग्नी.वै.सर्वे.देवाः । (सोम: एकादशिनी)

12.8.3

तद्.एनेन.सर्वान्.देवान्.प्रीणाति.इति.वदन्तः ।

12.8.4

तद्.उ.वा.आहुर्.अति.तद्.इन्द्रम्.भाजयन्ति । (सोम: एकादशिनी)

12.8.8

अग्नेर्.वै.प्रातः.सवनम् ।

12.8.9

प्रातः.सवन.एष.आलभ्यते ।

12.8.10

अग्नेर्.वा.एतम्.सन्तम्.अन्यस्मै.हरन्ति.ये.अन्य.देवत्यम्.कुर्वन्ति । (सोम: एकादशिनी)

12.8.11

तद्.यथा.अन्यस्य.सन्तम्.अन्यस्मै.हरेद्.एवम्.तत् ।

12.8.12

अपि.केवलम्.संवत्सरम्.संवत्सर.सदाम्.आग्नेय.एव.न.च्यवेत.इति । (सोम: एकादशिनी)

12.8.13

तद्विहा.एक.आहुः ।

12.8.14

शिक्षायाम्.एव.अवधृत.आग्नेयः ।

12.8.15

तस्य.भुवो.यज्ञस्य.रजसश्.च.नेता.इति.वपायै.याज्या । (सोम: एकादशिनी)

12.8.16

प्र.वः.शुक्राय.भानवे.भरध्वम्.इति.शुक्रवती.पुरोडाशस्य ।

12.8.17

प्र.कारवो.मनना.वच्यमाना.इति.हविष्मती.हविषः । (सोम: एकादशिनी)

12.8.18

एकादशिनीस्.त्व्.एव.अन्वायातयेयुर्.इति.सा.स्थितिः ।

12.8.19

यदि.पृष्ठ.उपायम्.भवति । (सोम: एकादशिनी)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc