कौषीतकिब्राह्मण · अध्याय 12.7
स.स्तुते.पवमान.एतम्.जपम्.जपेत् ।
उपहूता.देवा.अस्य.सोमस्य.पवमानस्य.विचक्षणस्य.भक्ष.उप.माम्.देवा.ह्वयन्ताम्.अस्य.सोमस्य.पवमानस्य.विचक्षणस्य.भक्षे.मनसा.त्वा.भक्षयामि.वाचा.त्वा.भक्षयामि.प्राणेन.त्वा.भक्षयामि.चक्षुषा.त्वा.भक्षयामि.श्रोत्रेण.त्वा.भक्षयामि.इति । (सोम: एकादशिनी)
स.एष.देवैः.समुपहवः ।
तथा.ह.अस्य.असौ.सोमो.राजा.विचक्षणश्.चन्द्रमा.भक्षो.भक्षितो.भवति । (सोम: एकादशिनी)
यम्.अमुम्.देवा.भक्षम्.भक्षयन्ति ।
अथ.पशुः ।
सोम.एव.एष.प्रत्यक्षम्.यत्.पशुः । (सोम: एकादशिनी)
उदक.पेयम्.इव.हि.स्याद्.यद्.एष.न.आलभ्येत ।
सवनान्य्.एतेन.तीव्री.करोति । (सोम: एकादशिनी)
तद्.यद्.वपया.चरन्ति ।
तेन.प्रातः.सवनम्.तीव्री.कृतम् । (सोम: एकादशिनी)
यत्.श्रपयन्ति.यत्.पशु.पुरोडाशेन.चरन्ति ।
तेन.माध्यंदिनम्.सवनम्.तीव्री.कृतम् । (सोम: एकादशिनी)
अथ.यद्.एनेन.तृतीय.सवने.प्रचरन्ति ।
तेन.तृतीय.सवनम्.तीवृई.कृतम् । (सोम: एकादशिनी)
स.एष.सवनानाम्.एव.तीव्री.कारः ।
याश्.च.सोमपा.देवताः । (सोम: एकादशिनी)
याश्.च.पशु.भाजनाः ।
त्रयस्.त्रिंशद्.वै.सोमपा.देवताः । (सोम: एकादशिनी)
याः.सोम.आहुतीर्.अन्वायत्ताः ।
अष्टौ.वसव.एकादश.रुद्रा.द्वादश.आदित्या.इन्द्रो.द्वात्रिंशः । (सोम: एकादशिनी)
प्रजापतिस्.त्रयस्.त्रिंशः ।
त्रयस्.त्रिंशत्.पशु.भाजनाः ।
ता.उभय्यः.प्रीता.भवन्ति.यद्.एष.आलभ्यते । (सोम: एकादशिनी)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0