कौषीतकिब्राह्मण · अध्याय 12.6
अनूत्थेयः.पवमानो.न.इति ।
न.अनूत्थेय.इत्य्.आहुः ।
ऋच.एतद्.आयतनम्.यत्र.एतद्द्.ह.उत.आस्ते । (सोम: एकादशिनी)
अथ.अदः.साम्नो.यत्र.अमी.साम.गायन्ति ।
स.यो.अनूत्तिष्ठति । (सोम: एकादशिनी)
ऋचम्.स.स्वाद.आयतनाच्.च्यवयति ।
ऋचम्.स.साम्नो.अनुवर्त्मानम्.करोति । (सोम: एकादशिनी)
तस्माद्.उ.न.अनूत्तिष्ठेत् ।
न.इद्.ऋचम्.स्वाद.आयतनाच्.च्यवयानि.इति । (सोम: एकादशिनी)
न.इद्.ऋचम्.साम्नो.अनुवर्त्मानम्.करवाणि.इति ।
यदि.तु.स्वयम्.होता.स्यात् । (सोम: एकादशिनी)
अनूत्तिष्ठेत् ।
औपगात्रम्.ह्य्.अस्य.भवति ।
स्वर्गो.वै.लोकः.स्वरः.साम । (सोम: एकादशिनी)
स्वर्गे.लोके.स्वरे.सामन्य्.आत्मानम्.अतिसृजा.इति ।
अथ.पवमाने.ह.वा.उ.प्रातः.सर्वा.देवताः.संतृप्यन्ति ।
कथम्.तत्र.अपरिभक्षितो.भवति.इति । (सोम: एकादशिनी)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0