भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 12.5

12.5.1

अथ.वा.उपांशुः.प्राण.एव ।

12.5.2

तम्.हूयमानम्.अनुप्राण्यात्.प्राणम्.मे.पाहि.प्राणम्.मे.जिन्व.स्वाहा.त्वा.सुभव.सूर्याय.इति । (सोम: एकादशिनी)

12.5.3

स.एव.तस्य.वषट्.कारः.स.स्वाहा.कारः ।

12.5.4

न.ह.वै.ता.आहुतयो.देवान्.गच्छन्ति.या.अवषट्.कृता.वा.अस्वाहा.कृता.वा.भवन्ति । (सोम: एकादशिनी)

12.5.5

अन्तर्यामो.अपान.एव ।

12.5.6

तम्.हूयमानम्.अन्ववान्याद्.अपानम्.मे.पाह्य्.अपानम्.मे.जिन्व.स्वाहा.इत्वा.सुभव.सूर्याय.इति । (सोम: एकादशिनी)

12.5.7

स.एव.तस्य.वषट्.कारः.स.स्वाहा.कारः ।

12.5.8

न.ह.वै.ता.आहुतयो.देवान्.गच्छन्ति.या.अवषट्.कृता.वा.अस्वाहा.कृता.वा.भवन्ति । (सोम: एकादशिनी)

12.5.9

तौ.वा.एतौ.प्राण.अपानाव्.एव.यद्.उपांश्व्.अन्तर्यामौ ।

12.5.10

तयोर्.वा.उदिते.अन्यम्.अनुदिते.अन्यम्.जुह्वति । (सोम: एकादशिनी)

12.5.11

इमाव्.एव.तत्.प्राण.अपानौ.वितारयति ।

12.5.12

तस्माद्द्.हि.इमौ.प्राण.अपानौ.सह.सन्तौ.नाना.इव । (सोम: एकादशिनी)

12.5.13

यद्.व्.एव.उदिते.अन्यम्.अनुदिते.अन्यम्.जुह्वति ।

12.5.14

अहो.रात्राभ्याम्.एव.तद्.असुरान्.अन्तरयन्ति । (सोम: एकादशिनी)

12.5.15

उभयतो.ह्य्.अमुम्.आदित्यम्.अहो.रात्रे.पाप्मानम्.वा.यजमान.इति.ह.स्म.आः । (सोम: एकादशिनी)

12.5.16

अथ.यस्य.एता.उभा.उदिते.जुह्वत्य्.उभौ.वा.अनुदिते ।

12.5.17

उदक.याजी.स.न.सोम.याजी । (सोम: एकादशिनी)

12.5.18

यस्य.एव.एतौ.यथा.यथम्.हूयेते.स.सोम.याजी ।

12.5.19

इति.न्व्.आउपांश्व्.अन्तर्यामयोः । (सोम: एकादशिनी)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc