कौषीतकिब्राह्मण · अध्याय 12.4
अथ.यत्.सह.पत्नीभिर्.यन्ति ।
गन्धर्वा.ह.वा.इन्द्रस्य.सोमम्.अप्सु.प्रत्याहिता.गोपायन्ति ।
त.उ.ह.स्त्री.कामाः । (सोम: अपोणपुटृइय)
ते.ह.आसु.मनांसि.कुर्वते ।
तद्.यथा.प्रमत्तानाम्.यज्ञम्.आहरेद्.एवम्.तत् । (सोम: अपोणपुटृइय)
उपनामुक.उ.एव.एनम्.यज्ञो.भवति ।
ता.वै.विंशतिम्.अन्वाह ।
ता.विराजम्.अभिसम्पद्यन्ते । (सोम: अपोणपुटृइय)
वैराजीर्.वा.आपः ।
अन्नम्.विराड्.अन्नम्.आपः ।
अन्नेन.तद्.अन्न.अद्यम्.समर्धयति ।
त्रिः.प्रथमया.त्रिर्.उत्तमया.चतुर्विंशतिः.सम्पद्यन्ते । (सोम: अपोणपुटृइय)
चतुर्विंशत्य्.अक्षरा.गायत्री ।
गायत्री.प्रातः.सवनम्.वहति ।
तद्.उ.ह.प्रातः.सवन.रूपान्.न.अपैति ।
इति.न्व्.आपोनप्त्रीयस्य । (सोम: अपोणपुटृइय)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0