कौषीतकिब्राह्मण · अध्याय 12.3
अनूक्तः.प्रातर्.अनुवाक.आसीत् ।
अप्राप्तान्य्.उक्थान्य्.आसन् ।
तान्.एतस्मिन्त्.संधाव्.असुरा.उपायन् ।
ते.देवाः.प्रतिबुध्य.बिभ्यत.एतम्.त्रिह्समृद्धम्.वज्रम्.अपश्यन् । (सोम: अपोणपुटृइय)
आप.इति.तत्.प्रथमम्.वज्र.रूपम् ।
सरस्वती.इति.तद्.द्वितीयम्.वज्र.रूपम् । (सोम: अपोणपुटृइय)
पञ्चदशर्चम्.भवति ।
तत्.तृतीयम्.वज्र.रूपम् ।
एतेन.वै.देवास्.त्रिः.समृद्धेन.वज्रेण.एभ्यो.लोकेभ्यो.असुरान्.अनुदन्त । (सोम: अपोणपुटृइय)
तथो.एव.एतद्.यजमान.एतेन.एव.त्रिः.समृद्धेन.वज्रेण.एभ्यो.लोकेभ्यो.द्विषतो.भ्रातृव्यान्.नुदते । (सोम: अपोणपुटृइय)
माध्यमाः.सरस्वत्याम्.सत्रम्.आसत ।
तद्द्.ह.अपि.कवषो.मध्ये.निषसाद । (सोम: अपोणपुटृइय)
तम्.ह.इम.उपोदुः ।
दास्या.वै.त्वम्.पुत्रो.असि.न.वयम्.त्वया.सह.भक्षयिष्याम.इति । (सोम: अपोणपुटृइय)
स.ह.क्रुद्धः.प्रद्रवन्त्.सरस्वतीम्.एतेन.सूक्तेन.तुष्टाव ।
तम्.ह.इयम्.अन्वियाय । (सोम: अपोणपुटृइय)
तत.उ.ह.इमे.निरागा.इव.मेनिरे ।
तम्.ह.अन्वाद्रुत्य.ऊचुः ।
ऋचे.नमस्.ते.अस्तु.मा.नो.हासीः । (सोम: अपोणपुटृइय)
त्वम्.वै.नः.श्रेष्ठो.असि ।
यम्.त्वा.इयम्.अन्वेति.इति ।
तम्.ह.ज्ञपयाम्.चक्रुः । (सोम: अपोणपुटृइय)
तस्य.ह.क्रोधम्.विनिन्युः ।
स.एष.कवषस्य.एव.महिमा.सूक्तस्य.च.अनुवेदिता । (सोम: अपोणपुटृइय)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0