भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 12.2

12.2.1

हिनोता.नो.अध्वरम्.देव.यज्या.इति ।

12.2.2

तस्या.एव.एषा.याज्या.देव.यज्या.इत्य्.अभिरूपा । (सोम: अपोणपुटृइय)

12.2.3

आवर्वृततीर्.अध.नु.द्विधारा.इत्य्.आवृत्तासु ।

12.2.4

प्रति.यद्.आपो.अदृश्रमायतीर्.इति.प्रतिख्यातासु । (सोम: अपोणपुटृइय)

12.2.5

समन्या.यन्त्य्.उप.यन्त्य्.अन्या.इति.समायतीषु ।

12.2.6

आपो.न.देवीर्.उप.यन्ति.होत्रियम्.इति.होतृ.चमसे.अवनीयमानासु । (सोम: अपोणपुटृइय)

12.2.7

आधेनवः.पयसा.तूर्ण्य्.अर्था.इति । (सोम: अपोणपुटृइय)

12.2.8

आपो.वै.धेनवः ।

12.2.9

आपो.हि.इदम्.सर्वम्.धिन्वन्ति ।

12.2.10

अथ.अध्वर्युर्.होतारम्.अभ्यावृत्य.तिष्ठति । (सोम: अपोणपुटृइय)

12.2.11

तम्.होता.पृच्छत्य्.अध्वर्यव्.ऐषीर्.अप.इति ।

12.2.12

ऐषीर्.यज्ञम्.इत्य्.एव.एनम्.तद्.आह । (सोम: अपोणपुटृइय)

12.2.13

उतेमनन्नमुर्.(?).इति.प्रत्याह ।

12.2.14

अविदाम.तद्.यद्.आस्य.ऐषीष्म.अनंसत.तस्मा.इत्य्.एव.एनम्.तद्.आह । (सोम: अपोणपुटृइय)

12.2.15

प्रत्युक्तो.होता.एतम्.निगदम्.प्रतिपद्यते ।

12.2.16

ऊर्ग्.वै.रसो.निगदः । (सोम: अपोणपुटृइय)

12.2.17

और्जम्.एव.तद्.रसम्.निगदेन.हविषि.दधाति ।

12.2.18

अम्बयो.यन्त्य्.अध्वभिर्.इति । (सोम: अपोणपुटृइय)

12.2.19

आपो.वा.अम्बयः ।

12.2.20

अपो.हि.यतीः.स्तौति ।

12.2.21

एमा.अग्मन्.रेवतीर्.जीव.धन्या.इत्य्.आगतासु । (सोम: अपोणपुटृइय)

12.2.22

आग्मन्न्.आप.उशतीर्.बर्हिर्.एदम्.इत्य्.आगतवत्या.परिदधाति ।

12.2.23

अभिरूपा.अन्वाह । (सोम: अपोणपुटृइय)

12.2.24

यद्.यज्ञे.अभिरूपम्.तत्.समृद्धम्.यज्ञस्य.एव.समृद्ध्यै । (सोम: अपोणपुटृइय)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc