कौषीतकिब्राह्मण · अध्याय 12.1
यज्ञो.वा.आपः ।
तद्.यद्.अपो.अच्छ.यन्ति ।
यज्ञम्.एव.तद्.अच्छ.यन्ति ।
अथो.ऊर्ग्.वा.आपो.रसः ।
और्जेन.एव.तद्.रसेन.हविः.संसृजन्ति ।
अथो.अमृतत्वम्.वा.आपः । (सोम: अपोणपुटृइय)
अमृतत्वम्.एव.तद्.आत्मन्.धत्ते ।
तद्द्.ह.स्म.वै.पुरा.यज्ञ.मुहो.रक्षांसि.तीर्थेष्व्.अपो.गोपायन्ति । (सोम: अपोणपुटृइय)
तद्.ये.के.च.आपो.अच्छ.जग्मुः ।
तद्.एव.तान्त्.सर्वान्.जघ्नुः ।
तत्.एतत्.कवषः.सूक्तम्.अपश्यत्.पञ्चदशर्चम्.प्र.देवत्रा.ब्रह्मणे.गातुर्.एत्व्.इति । (सोम: अपोणपुटृइय)
तद्.अन्वब्रवीत् ।
तेन.यज्ञ.मुहो.रक्षांसि.तीर्थेब्यो.अपाहन् । (सोम: अपोणपुटृइय)
तत.उ.ह.एतद्.अर्वाक्.स्वस्त्य्.अरिष्ट्याः.पुनः.प्रत्यायन्ति ।
अथ.अदो.अमुत्र.अप्स्व्.अध्वर्युर्.आहुतिम्.जुहोति ।
ताम्.सम्प्रत्य्.एताम्.अनुब्रूयात् । (सोम: अपोणपुटृइय)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0