भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 11.9

11.9.1

अथो.त्रीणि.वा.एतानि.साहस्राण्य्.अधियज्ञम् ।

11.9.2

प्रातर्.अनुवाक.आश्विनम्.महा.व्रतम्.इति ।

11.9.3

एतद्.उक्थम्.महा.रात्र.उपाकुर्यात्.पुरा.वाचो.विसर्गात् । (सोम: प्रातर्.अनुवाक)

11.9.4

यत्र.एतत्.पशवो.मनुष्या.वयांसि.इति.वाचम्.व्यालभन्ते.पुरा.ततः । (सोम: प्रातर्.अनुवाक)

11.9.6

आपीनाम्.वाचम्.अव्यासिक्ताम्.प्रथमत.ऋध्नवानि.इति ।

11.9.7

न.प्रातर्.अनुवाकम्.च.उपांश्व्.अन्तर्यामौ.च.अन्तरेण.वाचम्.विसृजते । (सोम: प्रातर्.अनुवाक)

11.9.8

प्राण.अपानौ.वा.उपांश्व्.अन्तर्यामौ ।

11.9.9

वाक्.प्रातर्.अनुवाकः ।

11.9.10

न.इत्.प्राण.अपानौ.च.वाचम्.च.अन्येन.अन्तर्.दधाति.इति । (सोम: प्रातर्.अनुवाक)

11.9.11

तद्द्.ह.एके.कश्.छन्दसाम्.योगम्.आवेद.धीर.इति.जपित्वा.अथ.आपो.रेवतीः.क्षयथा.हि.वस्व.इति.प्रतिपद्यन्ते । (सोम: प्रातर्.अनुवाक)

11.9.12

न.आपो.रेवत्यै.पुरस्तात्.किंचन.परिहरेद्.इति ।

11.9.13

तद्.इह.स्थितम्.अनाव्रस्काय.तद्.इह.स्थितम्.अनाव्रस्काय । (सोम: प्रातर्.अनुवाक)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc