कौषीतकिब्राह्मण · अध्याय 11.8
सहस्रम्.अनुब्रूयात् ।
सर्वम्.वै.तद्.यत्.सहस्रम् ।
सर्वम्.प्रातर्.अनुवाकः । (सोम: प्रातर्.अनुवाक)
तत्.सर्वेण.सर्वम्.आप्नोति.य.एवम्.वेद ।
तद्.उ.ह.स्म.आह.कौषीतकिः ।
प्रजापतिर्.वै.प्रातर्.अनुवाकः ।
अपरिमित.उ.वै.प्रजापतिः ।
कस्.तम्.मातुम्.अर्हेद्.इति । (सोम: प्रातर्.अनुवाक)
एषा.ह.एव.स्थितिः ।
तद्.आहुर्.यत्.सदस्य्.उक्थानि.शस्यन्ते.अथ.कस्माद्द्.हविर्.धानयोः.प्रातर्.अनुवाकम्.अन्वाह.इति । (सोम: प्रातर्.अनुवाक)
शिरो.वै.यज्ञस्य.यद्द्.हविर्.धाने ।
वाक्.प्रातर्.अनुवाकः ।
वाचा.एव.तत्.शिरः.समर्धयति । (सोम: प्रातर्.अनुवाक)
उदरम्.वै.सदः ।
अन्नम्.उक्थानि ।
उदर.सचेयम्.उ.वा.अन्न.अद्यम् । (सोम: प्रातर्.अनुवाक)
तद्.यथा.ह.वा.अन.एवम्.यज्ञः.प्रतिमया ।
यथा.धान्यम्.एवम्.प्रातर्.अनुवाकः । (सोम: प्रातर्.अनुवाक)
यथा.पात्राण्य्.एवम्.उक्थानि ।
स.यो.अल्पकम्.अन्वाह । (सोम: प्रातर्.अनुवाक)
यथा.अल्प.धान्ये.पात्राणि.समृच्छेरन् ।
एवम्.तस्य.उक्थाइ.समृच्छन्ते । (सोम: प्रातर्.अनुवाक)
उखानाम्.अनु.समरम्.ईश्वरो.यजमानम्.भ्रेषोन्वेतोः ।
तद्.उ.वा.आहुर्.बहुम्.एव.अनुब्रूयात् । (सोम: प्रातर्.अनुवाक)
उक्थानि.तत्.परिवृंहति.(परिबृन्हति) ।
या.यज्ञस्य.समृद्धस्य.आशीः.सा.मे.समृध्यताम्.इति ।
या.वै.यज्ञस्य.समृद्धस्य.आशीः.सा.यजमानस्य । (सोम: प्रातर्.अनुवाक)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0