कौषीतकिब्राह्मण · अध्याय 11.7
त्रिः.सप्तानि.क्रतूनाम्.छन्दांस्य्.अन्वाह ।
तद्.एकविंशतिः ।
एकविंशो.वै.चतुष्टोमः.स्तोमानाम्.परमः । (सोम: प्रातर्.अनुवाक)
तत्.परमम्.स्तोमम्.आप्नोति ।
यद्.उ.एव.एकविंशतिः । (सोम: प्रातर्.अनुवाक)
द्वादश.मासाः.पञ्च.ऋतवस्.त्रय.इमे.लोकाः ।
असाव्.आदित्य.एवविंशः । (सोम: प्रातर्.अनुवाक)
तेन.एव.तस्.सलोकतायाम्.यजमानम्.अध्यूहति ।
तद्.आहुर्.यद्.इमा.हविर्.यज्ञस्य.वा.पशोर्.वा.सामिधेन्यो.अथ.काः.सौम्यस्य.अध्वरस्य.इति । (सोम: प्रातर्.अनुवाक)
प्रातर्.अनुवाक.इति.ब्रूयात् ।
अक्षरैर्.ह.वा.इतरासाम्.संवत्सरम्.उपेप्सति । (सोम: प्रातर्.अनुवाक)
ऋभिर्.इह ।
शत.मात्रम्.अनुब्रूयात् ।
शत.आयुर्.वै.पुरुषः ।
आयुर्.एव.अस्मिंस्.तद्.दधाति । (सोम: प्रातर्.अनुवाक)
विंशति.शतम्.अनुब्रूयात् ।
विंशति.शतम्.वा.ऋतोर्.अहानि ।
तद्.ऋतुम्.आप्नोति । (सोम: प्रातर्.अनुवाक)
ऋतुना.संवत्सरम् ।
ये.च.संवत्सरे.कामाः ।
त्रीणि.षष्टि.शतान्य्.अनुब्रूयात् । (सोम: प्रातर्.अनुवाक)
त्रीणि.वै.षष्टि.शतानि.संवत्सरस्य.अह्नाम् ।
तत्.संवत्सरस्य.अहान्य्.आप्नोति । (सोम: प्रातर्.अनुवाक)
सप्तविंशति.शतान्य्.अनुब्रूयात् ।
सप्त.वै.विशंति.शतानि.संवत्सरस्य.अहो.रात्राणाम् । (सोम: प्रातर्.अनुवाक)
तत्.संवत्सरस्य.अहो.रात्रान्.आप्नोति । (सोम: प्रातर्.अनुवाक)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0