कौषीतकिब्राह्मण · अध्याय 11.6
सौयवसे.रमन्ते ।
सा.एकोना.विराड्.द्विर्.अनुक्तया ।
सम्प्रति.विराट्.त्रिर्.अनूक्तया । (सोम: प्रातर्.अनुवाक)
एका.विराजम्.अत्येति ।
त्रयो.वै.यज्ञे.कामाः ।
यः.सम्पन्ने.यो.न्यूने.यो.अतिरिक्ते । (सोम: प्रातर्.अनुवाक)
यद्.वै.यज्ञस्य.सम्पन्नम्.तत्.स्वर्ग्यम्।
यन्.न्यूनम्.तद्.अन्न.अद्यम् । (सोम: प्रातर्.अनुवाक)
यद्.अतिरिक्तम्.तत्.प्राजात्यै ।
तद्.अत्र.एव.यजमानः.सर्वान्.कामान्.आप्नोति । (सोम: प्रातर्.अनुवाक)
अभूद्.एषा.रुशत्.पशुर्.इत्य्.आशीर्वत्या.परिदधाति ।
पशुभ्य.एव.तद्.आशिषम्.वदते । (सोम: प्रातर्.अनुवाक)
तथा.ह.यजमानात्.पशवो.अनुत्क्रामुका.भवन्ति ।
तस्याम्.वाचम्.उत्सृजते ।
तद्.एनम्.अजनीति.देवेभ्यो.निवेदयति । (सोम: प्रातर्.अनुवाक)
अत्र.हि.जायते ।
अया.वाजम्.देव.हितम्.सनेम.इति.द्विपदाम्.अभ्यस्यति । (सोम: प्रातर्.अनुवाक)
पशवो.वा.एतानि.चतुर्.उत्तराणि.छन्दांसि ।
यजमान.छन्दसम्.द्विपदा । (सोम: प्रातर्.अनुवाक)
अधिष्ठायाम्.एव.तत्.पशूनाम्.यजमानम्.दधाति ।
अधि.इव.वै.पशून्.पुरुषस्.तिष्ठति ।
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0