कौषीतकिब्राह्मण · अध्याय 11.5
शुद्धः.प्रणवः.स्यात्.प्रजा.कामानाम् ।
मकार.अन्तः.प्रतिष्ठा.कामानाम् । (सोम: प्रातर्.अनुवाक)
मकार.अन्तः.प्रणवः.स्याद्.इति.ह.एक.आहुः ।
शुद्ध.इति.त्व्.एव.स्थितः । (सोम: प्रातर्.अनुवाक)
मीमांसितः.प्रणवः ।
अथ.अत.इह.शुद्ध.इह.पूर्ण.इति ।
शुद्ध.एव.प्रणवः.स्यात्.शस्त्र.अनुवचनयोर्.मध्य.इति.ह.स्म.आह.कौषीतकिः । (सोम: प्रातर्.अनुवाक)
तथा.संहितम्.भवति ।
मकार.अन्तो.अवसान.अर्थे ।
प्रतिष्ठा.वा.अवसानम्.प्रतिष्ठित्या.एव । (सोम: प्रातर्.अनुवाक)
अथो.उभयोः.कामयोर्.आप्त्यै ।
एत.उ.ह.वै.छन्दः.प्रवाहा.अवरम्.छन्दः.परम्.छन्दो.अतिप्रवहन्ति ।
तस्य.आर्तिर्.न.अस्ति.छन्दसा.छन्दो.अतिप्रोढस्य । (सोम: प्रातर्.अनुवाक)
अतियन्न्.एव.यम्.द्विष्यात् ।
तम्.मनसा.प्र.इव.विध्येत्.छन्दसाम्.कृन्तत्रेषु । (सोम: प्रातर्.अनुवाक)
द्रवति.वा.सम्.वा.शीर्यत.इति.ह.स्म.आह ।
समानोदर्काण्य्.उत्तमानि.क्रतूनाम्.पाङ्क्तान्य्.अन्वाह । (सोम: प्रातर्.अनुवाक)
रसो.वा.उदर्कः ।
पशवश्.छन्दांसि ।
रसम्.एव.तत्.छन्दांस्य्.अभ्युपनिवर्तन्ते । (सोम: प्रातर्.अनुवाक)
उपनिवर्तम्.इव.वै.पशवः । (सोम: प्रातर्.अनुवाक)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0