भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 11.4

11.4.1

आग्नेय.उषस्य.आश्विने.पूर्वा.पूर्वा.एव.व्याहृतिर्.अग्ने.रूपम् ।

11.4.2

उत्तरा.अमुष्य.आदित्यस्य । (सोम: प्रातर्.अनुवाक)

11.4.3

अथ.एतद्.द्वे.नाना.छन्दांस्य्.अन्तरेण.कर्ता.इव ।

11.4.4

अथ.एते.बलिष्ठे.अरिष्टे.अनार्ते.देवते । (सोम: प्रातर्.अनुवाक)

11.4.5

ताभ्याम्.प्रतिपद्यते ।

11.4.6

समानेन.सूक्तेन.समारोहेत् ।

11.4.7

तद्.अकर्तस्कद्यंल्.(?).लोहस्य.रूपम्.स्वर्ग्यम् । (सोम: प्रातर्.अनुवाक)

11.4.8

यत्र.वा.समानस्य.ऋषे.स्यात् ।

11.4.9

तद्.अनवानम्.संक्रामेत् ।

11.4.10

अमृतम्.वै.प्राणः । (सोम: प्रातर्.अनुवाक)

11.4.11

अमृतेन.तन्.मृत्युम्.तरति ।

11.4.12

तद्.यथा.वंशेन.वा.मत्येन.(मत्स्येन?)वा.कर्तम्.संक्रामेद्.एवम्.तत् । (सोम: प्रातर्.अनुवाक)

11.4.13

प्रणवेन.संक्रामति ।

11.4.14

ब्रह्म.वै.प्रणवः ।

11.4.15

ब्रह्मणा.एव.तद्.ब्रह्म.उपसंतनोति । (सोम: प्रातर्.अनुवाक)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc