भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 11.3

11.3.1

अथ.सर्वा.ह.वै.देवता.होतारम्.प्रातर्.अनुवाकम्.अनुवक्ष्यन्तम्.आशंसमानाः.प्रत्युपतिष्ठन्ते.मया.प्रतिपत्स्यते.मया.प्रतिपत्स्यत.इति । (सोम: प्रातर्.अनुवाक)

11.3.2

स.य.एकाम्.देवताम्.आदिश्य.प्रतिपद्येत ।

11.3.3

अथ.इतराभ्यो.देवताभ्यो.वृश्च्येत । (सोम: प्रातर्.अनुवाक)

11.3.4

अनिरुक्तया.प्रतिपद्यते ।

11.3.5

तेन.उ.न.कस्यै.चन.देवताया.आवृश्च्यते । (सोम: प्रातर्.अनुवाक)

11.3.6

आपो.रेवतीः.क्षयथा.हि.वस्व.इति.प्रतिपद्यते ।

11.3.7

आपो.वै.सर्वा.देवताः । (सोम: प्रातर्.अनुवाक)

11.3.8

सर्वाभिर्.एव.तद्.देवताभिः.प्रतिपद्यते ।

11.3.9

उपरयन्तो.अध्वरम्.इत्य्.उपसंदधाति । (सोम: प्रातर्.अनुवाक)

11.3.10

उप.इति.तद्.अस्य.लोकस्य.रूपम् ।

11.3.11

प्रयन्त.इत्.तद्.अमुष्य ।

11.3.12

उप.इति.तद्.अग्ने.रूपम् । (सोम: प्रातर्.अनुवाक)

11.3.13

प्रयन्त.इति.तद्.अमुष्य.आदित्यस्य ।

11.3.14

एवम्.एव.सर्वासु.प्रतिपत्सु.सर्वेषु.ऋतुषु । (सोम: प्रातर्.अनुवाक)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc