भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 11.2

11.2.1

अथ.वै.पङ्क्तेः.पञ्च.पदानि.कथम्.सार्धर्चशो.अनुक्ता.भवति.इति ।

11.2.2

प्रणव.उत्तरयोस्.तृतीयः । (सोम: प्रातर्.अनुवाक)

11.2.3

तथा.सार्धर्चशो.अनुक्ता.भवति ।

11.2.4

आग्नेयम्.क्रतुम्.अन्वाह ।

11.2.5

तद्.इमंल्.लोकम्.आप्नोति । (सोम: प्रातर्.अनुवाक)

11.2.6

उषस्यम्.अन्वाह ।

11.2.7

तद्.अन्तरिक्ष.लोकम्.आप्नोति ।

11.2.8

आश्विनम्.अन्वाह ।

11.2.9

तद्.अमुंल्.लोकम्.आप्नोति । (सोम: प्रातर्.अनुवाक)

11.2.10

गायत्रीम्.अन्वाह ।

11.2.11

मुखम्.एव.गायत्री ।

11.2.12

अनुष्टुभम्.अन्वाह । (सोम: प्रातर्.अनुवाक)

11.2.13

वाग्.अनुष्टुप् ।

11.2.14

मुखे.तद्.वाचम्.दधाति ।

11.2.15

मुखेन.वै.वाचम्.वदति । (सोम: प्रातर्.अनुवाक)

11.2.16

त्रिष्टुभम्.अन्वाह ।

11.2.17

बलम्.वै.वीर्यम्.त्रिष्टुप् ।

11.2.18

बृहतीम्.अन्वाह ।

11.2.19

गो.अश्वम्.एव.बृहती । (सोम: प्रातर्.अनुवाक)

11.2.20

उष्णिहम्.अन्वाह ।

11.2.21

अज.अविकम्.एव.उष्णिक् ।

11.2.22

जगतीम्.अन्वाह ।

11.2.23

बलम्.वै.वीर्यम्.जगती । (सोम: प्रातर्.अनुवाक)

11.2.24

बलम्.वीर्यम्.पुरस्तात्.त्रिष्टुप् ।

11.2.25

बलम्.वीर्यम्.उपरिष्टाज्.जगती ।

11.2.26

मध्ये.बार्हताश्.च.औष्णुहाश्.च.पशवः । (सोम: प्रातर्.अनुवाक)

11.2.27

बलेन.एव.तद्.वीर्येण.उभयतः.पशून्.परिगृह्य.यजमाने.दधाति ।

11.2.28

तथा.यजमानात्.पशवो.अनुत्क्रामुका.भवन्ति । (सोम: प्रातर्.अनुवाक)

11.2.29

तद्.यथा.ह.वा.अस्मिंल्.लोके.मनुष्याः.पशून्.अश्नन्ति ।

11.2.30

यथा.एभिर्.भुञ्जते । (सोम: प्रातर्.अनुवाक)

11.2.31

एवम्.एव.अमुष्मिंल्.लोके.पशवो.मनुष्यान्.अश्नन्ति ।

11.2.32

एवम्.एभिर्.भुञ्जते । (सोम: प्रातर्.अनुवाक)

11.2.33

स.य.एनान्.इह.प्रातर्.अनुवाकेन.अवरुन्धे ।

11.2.34

तम्.इह.अवरुद्धा.अमुष्मिंल्.लोके.न.अश्नन्ति । (सोम: प्रातर्.अनुवाक)

11.2.35

न.एनेन.प्रतिभुञ्जते ।

11.2.36

यथा.एव.एनान्.अस्मिंल्.लोके.अश्नाति ।

11.2.37

यथा.एभिर्.भुङ्क्ते । (सोम: प्रातर्.अनुवाक)

11.2.38

एवम्.एव.एनान्.अमुष्मिंल्.लोके.अश्नाति ।

11.2.36

यथा.एव.एनान्.अस्मिंल्.लोके.अश्नाति ।

11.2.37

यथा.एभिर्.भुङ्क्ते । (सोम: प्रातर्.अनुवाक)

11.2.38

एवम्.एव.एनान्.अमुष्मिंल्.लोके.अश्नाति ।

11.2.39

एवम्.एभिर्.भुङ्क्ते ।

11.2.40

पङ्क्तिम्.अन्वाह । (प्रातर्.अनुवाक)

11.2.41

प्रतिष्ठा.वै.पङ्क्तिः ।

11.2.42

सर्वेष्व्.एव.तद्.भूतेषु.यजमानम्.प्रतिष्ठापयति । (सोम: प्रातर्.अनुवाक)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc