भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 11.1

11.1.1

अथ.अतः.प्रातर्.अनुवाकः ।

11.1.2

यद्.एव.एनम्.प्रातर्.अन्वाह ।

11.1.3

तत्.प्रातर्.अनुवाकस्य.प्रातर्.अनुवाकत्वम् । (सोम: प्रातर्.अनुवाक)

11.1.4

अथ.यत्.प्रपदो.जपति.यद्.आहुतीर्.जुहोति ।

11.1.5

स्वस्त्ययनम्.एव.तत्.कुरुते । (सोम: प्रातर्.अनुवाक)

11.1.6

हिंकृत्य.प्रातर्.अनुवाकम्.अन्वाह ।

11.1.7

वज्रो.वै.हिंकारः ।

11.1.8

वज्रेण.एव.तद्.यजमानस्य.पाप्मानम्.हन्ति । (सोम: प्रातर्.अनुवाक)

11.1.9

उच्चैर्.निरुक्तम्.अनुब्रूयात् ।

11.1.10

एतद्द्.ह.वा.एकम्.वाचो.अनन्ववसितम्.पाप्मना.यन्.निरुक्तम् । (सोम: प्रातर्.अनुवाक)

11.1.11

तस्मान्.निरुक्तम्.अनुब्रूयात् ।

11.1.12

यजमानस्य.एव.पाप्मनो.अपहत्यै । (सोम: प्रातर्.अनुवाक)

11.1.13

अर्धर्चशो.अनुब्रूयात् ।

11.1.14

ऋक्.सम्मिता.वा.इमे.लोकाः ।

11.1.15

अयंल्.लोकः.पूर्वो.अर्धर्चः । (सोम: प्रातर्.अनुवाक)

11.1.16

असौ.लोक.उत्तरः ।

11.1.17

अथ.यद्.अर्धर्चाव्.अन्तरेण.तद्.इदम्.अन्तरिक्षम् । (सोम: प्रातर्.अनुवाक)

11.1.18

तद्.यद्.अर्धर्चशो.अन्वाह ।

11.1.19

एभिर्.एव.तल्.लोकैर्.यजमानम्.समर्धयति । (सोम: प्रातर्.अनुवाक)

11.1.20

एष्व्.एव.तल्.लोकेषु.यजमानम्.दधाति । (सोम: प्रातर्.अनुवाक)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc