भाषा

ENहिગુ
ग्रंथ पाठ

कौषीतकिब्राह्मण · अध्याय 10.10

10.10.1

तस्माद्.अच्युतो.भवति ।

10.10.2

स.उ.वै.पयो.भाजनः ।

10.10.3

अत्र.अग्निः.सर्वेषु.हविह्षु.भागी.भवति । (पशु: वनस्पति.याग)

10.10.4

तद्.आहुर्.यद्.धाम.भाजो.देवा.अथ.कस्मात्.पाथो.भाग्.वनस्पतिर्.इति । (पशु: वनस्पति.याग)

10.10.5

धाम.वै.देवा.यज्ञस्य.अभजन्त ।

10.10.6

पाथः.पितरः ।

10.10.7

पितृ.देवत्य.इव.वै.पशुः ।

10.10.8

पितृ.देवत्यम्.पयः ।

10.10.9

तस्माद्.इति.ब्रूयात् । (पशु: वनस्पति.याग)

10.10.10

तद्.आहुः.कस्मात्.सौम्य.एव.अध्वरे.प्रवृत.आहुती.जुह्वति.न.हविर्.यज्ञ.इति । (पशु: प्रवृत.आहुति)

10.10.11

अकृत्स्ना.एव.वा.एषा.देव.यज्या.यद्द्.हविर्.यज्ञः ।

10.10.12

अथ.एषा.एव.कृत्स्ना.देव.यज्ञा.यत्.सौम्यो.अध्वरः । (पशु: प्रवृत.आहुति)

10.10.13

तस्मात्.सौम्य.एव.अध्वरे.प्रवृत.आहुती.जुह्वति.न.हविर्.यज्ञ.इति । (पशु: प्रवृत.आहुति)

10.10.14

जुष्टो.वाचो.भूयासम्.जुष्टो.वाचस्पतेर्.देवि.वाक् ।

10.10.15

यत्.ते.वाचो.मधुमत्तमम्.तस्मिन्.नो.अद्य.धाः.स्वाहा.सरस्वत्या.इति.पुरस्तात्.स्वाहा.कारेण.जुहोति । (पशु: प्रवृत.आहुति)

10.10.16

वाचम्.तद्.उत्सृजते ।

10.10.17

तस्माद्.वाग्.अत.ऊर्ध्व.उत्सृष्टा.यज्ञम्.वहति । (पशु: प्रवृत.आहुति)

10.10.18

मनसा.उत्तराम् ।

10.10.19

मनहा.हि.मनः.प्रीतम्.मनः.प्रीतम् । (पशु: प्रवृत.आहुति)

मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc