कौषीतकिब्राह्मण · अध्याय 10.9
अथ.मनोताम्.अन्वाह ।
सर्वा.ह.वै.देवताः.पशुम्.आलभ्यमानम्.उपसंगच्छन्ते.मम.नाम.ग्रहीष्यति.मम.नाम.ग्रहीष्यति.इति । (पशु: मनोता.अनुवचन)
तासाम्.सर्वासाम्.पशाव्.एव.मनांस्य्.ओतानि.भवन्ति ।
ता.अत्र.प्रीणाति । (पशु: मनोता.अनुवचन)
तथा.ह.आसाम्.सर्वासाम्.अमोघाय.एव.उपसमेतम्.भवति ।
तद्.आहुर्.यन्.नाना.देवताः.पशव.आलभ्यन्ते.अथ.कस्माद्.आग्नेयम्.एव.अन्वाह.इति । (पशु: मनोता.अनुवचन)
तिस्रो.वै.देवानाम्.मनोताः ।
अग्निर्.वै.देवानाम्.मनोता ।
तस्मिन्.ह्य्.एषाम्.मनांस्य्.ओतानि.भवन्ति । (पशु: मनोता.अनुवचन)
अथो.वाग्.वै.देवानाम्.मनोता ।
तस्याम्.ह्य्.एषाम्.मनांस्य्.ओतानि.भवन्ति । (पशु: मनोता.अनुवचन)
अथो.गौर्.वै.देवानाम्.मनोता ।
तस्याम्.ह्य्.एषाम्.मनांस्य्.ओतानि.भवन्ति । (पशु: मनोता.अनुवचन)
अग्निर्.सर्वा.मनोताः ।
अग्नौ.मनोताः.संगच्छन्ते ।
तस्माद्.आग्नेयम्.एव.अन्वाह.इति । (पशु: मनोता.अनुवचन)
ता.वै.त्रयोदश.भवन्ति ।
त्रयोदश.वै.पशोर्.अवदानानि.भवन्ति । (पशु: पशोर्.अवदानानि)
त्रिः.प्रथमया.त्रिर्.उत्तमया.सप्तदश.सम्पद्यन्ते ।
सप्तदशो.वै.प्रजापतिः । (पशु: पशोर्.अवदानानि)
एतद्.वा.आर्ध्नुकम्.कर्म.यत्.प्रजापति.सम्मितम् ।
सप्तदश.सामिधेनीर्.अन्वाह । (पशु: पशोर्.अवदानानि)
सप्तदशो.वै.प्रजापतिः ।
एतद्.वा.आर्ध्नुकम्.कर्म.यत्.प्रजापति.सम्मितम् । (पशु: पशोर्.अवदानानि)
अथ.यत्र.पशुर्.आलभ्यते ।
तद्.वनस्पतिर्.अच्युतः ।
अग्निर्.वै.वनस्पतिः ।
स.वै.देवभ्यो.हविः.श्रपयति । (पशु: वनस्पति.याग)
मूल पाठ: Kauṣītakibrāhmaṇa (or Śāṅkhāyanabrāhmaṇa) · Edition: E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0